TBD.
इषिकर्म यो धतुरिषिणैव समानकर्तृकः, तस्मादिच्छायाम् अर्थे वा सन् प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्टुम् इच्छति। चिकीर्षति। जिहीर्षति। धातुग्रहनं किम्? सोपसर्गादुत्पत्तिर् मा भूत्। प्रकऋतुम् ऐच्छत् प्राचिकीर्षत्। कर्मणः इति किम्? करणान् मा भूत्। गमनेन इच्छति। समानकर्तृकतिति किम्? देवदत्तस्य भोजनम् इच्छति यज्ञदत्तः। इच्छायाम् इति किम्? कर्तुं जानाति। वावचनाद् वाक्यम् अपि भवति। धातोः इति विधानादत्र सनः आर्धधातुकसंज्ञा भवति, न पूर्वत्र। आशङ्कायाम् उपसंख्यानम्। आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम्। श्वा मुमूर्षति। इच्छासन्नन्तात् प्रतिषेधो वक्तव्यः। चिकीर्षितुम् इच्छति। विशेषणं किम्? जुगुप्सिषते। मीमांसिषते। शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सनन्तान् न सनिष्यते।
TBD.
708 इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्.. पठ व्यक्तायां वाचि..
435 धातोः कर्मणः। `गुप्तिज्किद्भ्यः' इत्यतः सन्नित्यनुवर्तते। इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम्। तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम्। कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति। एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति। तदाह – इषिकर्मण इत्यादि। इषिरिच्छा। इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः। ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह– धातोरिति। धातोरिति विहितस्यैव प्रत्ययस्याद्र्धधातुकत्वं, नतु धातोः परस्य। अन्यथा जुगुप्सते इत्यत्र आद्र्धधातुकत्वे फलमाह – इडिति। द्वित्वमिति। `सन्यङो'रित्यनेनेति भावः। अभ्यासस्य इत्त्वविधिं स्मारयति– सन्यत इति। पठितुमिच्छतीति। भावस्तुमुनर्थः। `अव्ययकृतो भावे' इत्युक्तेः। धात्वर्थ एव भाव इत्युच्यते। तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः। तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते। तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति। अथ `अद भक्षणे' इति धातोः सनि घस्लृभावं स्मारयति– लुङ्सनोर्घस्लृ इति। घस् स इति स्थिते इटमाशङ्क्य आह– एकाच इति नेडिति। घस् स इति स्थिते आह– सस्य तत्वमिति। `सः स्याद्र्धधातुके' इत्यनेनेति भावः। जिघत्सतीति। द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः। य्सनोर्द्वित्वमिति। `तृतीयस्य व्यञ्जनस्ये' ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः। तदाह - - ईष्र्ययिषतीति। तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः। `तृतीयस्यैकाच' इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्?तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह– ईर्ष्यिषिषतीति। अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः।
379 धातोः कर्मणः। इषिकर्मण इत्यादि। इच्छायामिति श्रुतत्वात्कर्मत्वं कर्तृत्वं च तदपेक्षमेव गृह्रत इति भावः। पठितुमिच्छतीति। एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः। यिसनोरिति। `तृतीयव्यञ्जनस्ये'ति पक्षे यकारस्य द्वित्वं, `तृतीयस्यैकाच' इति पक्षे तु सन इत्यर्थः।
वृत्ति: इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).
उदाहरणम् – पिपठिषति (optionally पठितुमिच्छति) is a desiderative form derived from √पठ् (पठँ व्यक्तायां वाचि १. ३८१). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
पठ् + सन् 3-1-7
= पठ् + स 1-3-3, 1-3-9
= पठ् + इट् स 7-2-35, 1-1-46
= पठ् + इस 1-3-3, 1-3-9
Example continued under 6-1-9