Table of Contents

<<3-1-8 —- 3-1-10>>

3-1-9 काम्यच् च

प्रथमावृत्तिः

TBD.

काशिका

सुबन्तात् कर्मणः आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचो ऽनुवृत्त्यर्थः। ककारस्य इत्सज्ञा प्रयोजनाभावान् न भवति, चकारादित्वाद् व काम्यचः। उपयट्काम्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

728 उक्तविषये काम्यच् स्यात्. पुत्रमात्मन इच्छति पुत्रकाम्यति. पुत्रकाम्यिता..

बालमनोरमा

488 `सुप आत्मनः क्य'जित्युत्तरमिदं सूत्रम्। तदाह– उक्तविषये इति। पुत्रकाम्यतीति. कस्येत्संज्ञा तु न, फलाऽभावात्। अनर्थकत्वादिति। काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः। ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह–यस्येतीति. `यस्य हलःर' इत्यत्र `यस्ये'त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः। तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः। प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः। यशस्काम्यतीति। `सोऽपदादौ' इति सत्वम्। ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् ? `मान्ताव्ययानां ने'त्यनुवृत्तेरित्यत आह– मान्ताव्ययेभ्योऽप्ययमिति।

तत्त्वबोधिनी

419 काम्यच्च। उच्चारणसामथ्र्यान्न कस्येत्संज्ञा। `मान्ताव्ययेभ्यः प्रतिषेधः' इत्यस्यानुवृत्त्यभां सूचयति– अयं स्यादेवेति। आचरतीति। व्यवहरतीत्यर्थः।

सप्तम्यन्तरूपात्सुबन्तादित्यर्थः।

Satishji's सूत्र-सूचिः

वृत्तिः इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे काम्‍यच् स्यात् । The affix काम्‍यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.
Note: In the optional case when the affix काम्‍यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

उदाहरणम् – पुत्रमात्मन इच्छति = पुत्रकाम्यति।

पुत्र + अम् 4-1-2
= पुत्र + अम् + काम्‍यच् 3-1-9
= पुत्र + अम् + काम्य 1-3-3, 1-3-9. Note: The ककारः in काम्‍यच् does not get the इत्-सञ्ज्ञा (by 1-3-8) because it would serve no purpose. “पुत्र + अम् + काम्य” gets धातु-सञ्ज्ञा by 3-1-32
= पुत्र + काम्य 2-4-71, 1-1-61

पुत्रकाम्य + लँट् 3-2-123 = पुत्रकाम्यति 1-3-78