Table of Contents

<<3-1-47 —- 3-1-49>>

3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्

प्रथमावृत्तिः

TBD.

काशिका

सिजपवादश्चङ् विधीयते। ण्यन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेः चङादेशो भवति कर्तवाचिनि लुङि परतः। ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः चङि 6-1-11 इति विशेषणार्थः। अचीकरत्। अजीहरत्। अशिश्रियत्। अदुद्रुवत्। असुस्रुवत्। कर्तरि इति किम्? अकारयिषातां कटौ देवदत्तेन। कमेरुपसङ्ख्यानम्। आयादयः आर्धधातुके वा 3-1-31 इति यदा णिङ् न अस्ति तदा एततुपसङ्ख्यानम्। अचकमत। णिङ्पक्षे सन्वद्भावः। अचीकमत। नाकमिष्टसुखं यान्ति सुयुक्तैर् वडवारथैः। अथ पत्कषिणो यान्ति ये ऽचीकमतभाषिणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

530 ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे. अकामि अ त इति स्थिते –.

बालमनोरमा

153 अथ णिङन्तात्कामीत्यरस्माल्लुङस्तादेशे च्लेः सिजादेशे प्राप्ते– णिश्रि। णि श्रि द्रु रुआउ एषां द्वन्द्वः। प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहमम्। `च्लि लुङी'त्यतो लुङीति, `च्लेः सि'जित्यतश्च्लेरिति चानुवर्तते। तदाह- - ण्यन्तादित्यादिना। चङावितौ।

तत्त्वबोधिनी

127 णिश्रिद्रु। च्लेः सिचोऽपवादः।

Satishji's सूत्र-सूचिः

वृत्ति: ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे । In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” (“णिच्” or ”णिञ्”) or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44.

उदाहरणम् – अचीकमत derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

णिङ्-पक्षे – Note: By 3-1-31 the affix “णिङ्” is optional here. Let us first consider the case where the affix “णिङ्” is used.
कमुँ + णिङ् 3-1-30, 3-1-31
= कम् + इ 1-3-2, 1-3-3, 1-3-7, 1-3-9
= काम् + इ 7-2-116
= कामि । “कामि” gets धातु-सञ्ज्ञा by 3-1-32
Note: ङित्त्वात्तङ् । Since the affix “णिङ्” has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” takes आत्मनेपद-प्रत्ययाः।

कामि + लुँङ् 3-2-110
= कामि + ल् 1-3-2, 1-3-3, 1-3-9
= कामि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= कामि + च्लि + त 3-1-43
= कामि + चङ् + त 3-1-48. Note: 1-1-5 stops 7-3-84
= कामि + अ + त 1-3-3, 1-3-7, 1-3-9

Example continued under 7-4-1

वार्तिकम् (under 3-1-48) – कमेश्च्लेश्चङ् वक्तव्यः ।

When following the verbal root √कम् (कमुँ कान्तौ १. ५११), the affix “च्लि” is substituted by “चङ्”। Note: In the काशिका this वार्तिकम् is worded as “कमेरुपसङ्ख्यानम्।”

उदाहरणम् – अचकमत derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

“णिङ्”-अभावपक्षे – Now let us consider the case where the affix णिङ् (which is optional here by 3-1-31) is not applied.
कम् + लुँङ् 3-2-110
= कम् + ल् 1-3-2, 1-3-3, 1-3-9
= कम् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= कम् + च्लि + त 3-1-43
= कम् + चङ् + त By the above वार्तिकम् “कमेश्च्लेश्चङ् वक्तव्यः।”
= कम् + अ + त 1-3-3, 1-3-7, 1-3-9
= कम् कम् + अ + त 6-1-11
= क कम् + अ + त 7-4-60
= च कम् + अ + त 7-4-62
= अट् च कम् + अ + त 6-4-71, 1-1-46
= अचकमत 1-3-3, 1-3-9