Table of Contents

<<3-1-48 —- 3-1-50>>

3-1-49 विभाषा धेट्श्व्योः

प्रथमावृत्तिः

TBD.

काशिका

धेट् पाने, टुओश्वि गतिवृद्ध्योः, एताभ्याम् उत्तरस्य च्लेर् विभाषा चङादेशो भवति। धेटस्तावत् अदधात्। सिच्पक्षे विभाषा घ्राधेट्शाच्छासः 2-4-78 इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि। अशिश्वियत्। अङो ऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरि इत्येव, अधिषातां गवौ वत्सेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

212 लुङि च्लेः सिचि प्राप्ते– विभाषा धेट्। `च्लि लुङी'त्यनुवर्तते। `णिश्रिद्रुरुआउभ्यःरर' इत्यतः कर्तरि चङिति च। तदाह–आभ्यामिति। धेट् \उfffदिआ आभ्यामित्यर्थः। अदधदिति। चङि द्वित्वे आल्लोप इति भावः। अदधताम्। अदधन्। अदधः अदधतम् अदधत। अदधम् अदधाव अदधाम।

तत्त्वबोधिनी

184 विभाषा धेट्। `च्लि लुङी'त्यनुवर्तते, `णिश्री'त्यस्मात्कर्तरीति च। तदाह– च्लेश्चङ् वेत्यादि। अदधदिति। चङि आतो लोपः। \उfffदायतेरुदाहरणम्- - अशि\उfffदिआयत्।

Satishji's सूत्र-सूचिः

TBD.