TBD.
गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति। तोपायति। धूपयति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययम् उत्पादयति न व्यवहारार्थः। शतस्य पणते। सहस्रसय पणते। अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति।
TBD.
469 एभ्य आयः प्रत्ययः स्यात् स्वार्थे..
146 गुपूधूप। एभ्य इति। गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः। अर्थनिर्देशाऽभावादाह– स्वार्थ इति। आयप्रत्ययः अकारान्तः। तत्फलं तु `गोपायतं नः सुमनस्यमान' इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापि `एकादेश उदात्तेनोपादात्तः' इत्युदात्तत्वे, `त'मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्य `उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्यम्। `धातोरेकाच' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्याद्र्धधातुकत्त्वात्कार्यं गुणादि भवति। तदाह— पुगन्तेति गुण इति।
–
327) गुपूधूपविच्छिपणिपनिभ्य आयः 3-1-28
वृत्तिः एभ्य आयप्रत्ययः स्यात् स्वार्थे । The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.
उदाहरणम् – गोपायति (√गुप्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
गुप् + आय 3-1-28
Example continued below