Table of Contents

<<3-1-11 —- 3-1-13>>

3-1-12 भृशादिभ्यो भुव्यच्वेर् लोपश् च हलः

प्रथमावृत्तिः

TBD.

काशिका

भृश इत्येवम् आदिभ्यः प्रातिपदिकेभ्यो ऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ् प्रत्ययो भवति, हलन्तानां च लोपः। अच्वेः इति प्रत्येकम् अभिसम्बध्यते। किम् अर्थं पुन रिदम् उच्यते, यावता भवति योगे च्विर् विधीयते, तेनोक्तार्थत्वाच् च्व्यन्तेभ्यो न क्यङ् भविष्यति? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते। अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ् प्रत्ययः। अभृशो भृशो भवति भृशायते। शीघ्रायते। भृश। शीघ्र। मन्द। चपल। पण्डित। उत्सुक। उन्मनस्। अभिमनस्। सुमनस्। दुर्मनस्। रहस्। रेहस्। शश्वत्। बृहत्। वेहत्। नृषत्। शुधि। अधर। ओजस्। वर्चस्। भृशादिः। अच्वेः इति किम्? भृशीभवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

492 भृशादिभ्यो। भवनं भूः, भावे क्विप्। तदाह– भवत्यर्थे इति। भवने इत्यर्थः। क्यङ् स्यादिति। `कर्तुः क्यङ् स लोपश्चे'त्यतस्तदनुवृत्तेरिति भावः। हलन्तानामेषामिति। भृशादिषु ये हलन्तास्तेषां लोपः, क्यङ् चेत्यर्थः। ननु `अभूततद्भावे' इतिकुतो लब्धमित्यत आह– अच्वेरिति पर्युदासबलादिति। `अभूततद्भावग्रहण'मिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः। ये रात्रौ भृशा इति। प्रकाशाऽतिशयवन्त इत्यर्थः। भृशादिषु हलन्तमुदाहरति– सुमनसिति। सुमनायते इति। असुमनाःसुमना भवतीत्यर्थः। यद्यपि स्त्रियामित्यधिकारे `अप्सुमनस्समासिकतावर्षाणां बहुत्वं चे'ति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितं, तथापि तद्देवादिपर्यायरूढविषयम्। सु = शोभनं मनो यस्येति सुमना इति बहुव्रीहिर्यौगिक इति भावः। सुमनायते इति। क्यङि सलोपे `अकृत्सार्वे'ति दीर्घः। ननु लङि मनश्शब्दात्प्रागटि `स्वमनायते'ति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात्सुमनश्शब्दस्य समस्तस्यैव लङं प्रत्यङ्गत्वात्, `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहण'मिति न्यायादित्याशङ्क्याह– चुरादौ सङ्ग्राम युद्धे इति पठ\उfffद्ते इति। ततश्च क्वचित्सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः। ननु चुरादौ `सङ्ग्रामे'ति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः। एवं चास्य प्रातिपदिकत्वाऽभावात्सोपसर्गात्क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमकमित्यत आह– तत्र सङ्ग्रामेति प्रातिपदिकमिति। `ग्रसेरा'चे'त्यौणादिके मन्प्रत्ययेनिष्पन्नस्य ग्रामशब्दस्य `कृत्तद्धिते'ति प्रातिपदिकत्वम्। अव्युत्पत्तिपक्षे `अर्थवदधातु'रिति प्रातिपदिकत्वमित्यर्थः। ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादकणिजर्थः। एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह–तस्मादिति। तस्मात्सङ्ग्रामेति प्रातिपदिकाच्चौरादिकणिजसंभवेऽपि `तत्करोती'त्यर्थे णिच् सिद्ध इत्यर्थः। ननु `तत्करोती'त्यनेनैव सङ्ग्रामशब्दात्प्रातिपदिकाण्णिच्सिद्धे किमर्थमिह चुरादौ तस्य पाठ इत्यत आह- - तत्संनियोगेनेति। णिच्संनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः। न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाऽभावादससङ्ग्रामत्येत्यत्र `णौ चङ्युपधायाः' इत्युपधाह्यस्वः स्यादिति वाच्यं, सङ्ग्रामेत्ययं हि कथादित्व#आददन्तः। तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः। एवं च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्यस्वः। कथादित्वलक्षणाऽदन्तत्वलाभायैवाऽस्य चुरादौ पाठ इति भावः। ननु चुरादौ सङ्ग्रामशब्दस्य `तत्करोती'ति णिचि परे अस्त्वनुबन्धाऽऽसङ्गः, तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यतर् कथमस्य ज्ञापतेत्यत आह– युद्धे इति। सामथ्र्यादिति। `ग्राम युद्धे' इत्येतावतैव सङ्ग्रामशब्दो लभ्यते, केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादित्यर्थः। विशिष्टपाठ इति। सङ्ग्रामशब्दपाठ इत्यर्थः। ज्ञाप्यमर्थमाह– सामानाकारमिति। सङ्ग्रामशब्दे युद्धवाचिनि `स'मित्यस्य क्रि#आययोगाऽभावात्समानाकारमित्युक्तम्। धातुसंज्ञाप्रयोजके इति। `क्विबादा'विति शेषः। पृथक्क्रियते इति। तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः। ततः किमित्यत आह– तेनेति। `स'मित्यस्य धातुसंज्ञाप्रवेशाऽभावेनेत्यर्थः। तथा च सुमनश्शब्दादाचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्तः प्रागेव अट्, न तु सुमनसिति समुदायात्प्रागित्यर्थः। एतेन `सङ्ग्रामयतेरेव सोपसर्गान्नाऽन्यास्मा'दित्यादि भाष्यं `भृषादिभ्य' इति सूत्रस्थं व्याख्यातमिति बोध्यम्। उन्मनायते इति। भृशादित्वात् क्यङि सलोपः। एवं चेति। एवमुक्तरीत्या `आचारेऽवगल्भे'ति क्विब्विधावपि अवेत्यस्य पृथक्करमाद्गल्भशब्दात्प्रागेव अडित्यर्थः। ननु आ ऊढः ओढः। `कुगती'ति समासः। अस्माद्भृशादित्वात्क्यङि `ओढायते' इत्यादि रूपम्। अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात्, तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्रागाटि न रूपे विशेषः, उभयथापि औढायतेत्येव रूपं सिद्धमेव। तथापि ओढायेति क्यङन्तात्क्वाप्रत्ययेअतो लोपे ओढायित्वेत्येवेष्यते। अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः `कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन अतो लोपे ओढायित्वेत्येवेष्यते। अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः `कुगतिप्रादयः' इति क्त्वापत्र्ययान्तेन समासे सति `समासेऽनञ्पूर्वे क्त्वो ल्य'बिति ल्यप् स्यादित्यत आह– ज्ञापकं च सजातीयविषयमिति। तदेवोपपादयति– तेनेति। चुरादौ `सङ्ग्राम युद्धेट इति सम्ग्रहणस्य उक्तार्थे पृथक्कृतिरिति ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपमविकृतं श्रूयते नत्वेकादेशेनापह्मतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, सङ्ग्रामे सम्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः। ततः किमित्यत आह– एवं चेति। ओढायित्वेति। ओढशब्दाद्भृशादित्वात् क्यङि ओढायेत्यस्मात्क्यङ्नतात्क्वाप्रत्यये अतो लोपे रूपम्। अत्रेति। अत्र न ल्यबित्यन्वयः। क्यङि विवक्षिते आङ एकादेशेनापह्मत्वेन पृथक्करणाऽभावे सति तस्य आङः क्त्वाप्रत्ययान्तेन समासाऽभावान्न ल्यबिति भावः। उन्मनाय्य, अवगल्भ्येतिवदिति व्यतिरेकदृष्टान्तः। उन्मनस्शब्दाद्भृशादित्वादाचारे क्यङि सकारलोपे `अकृत्सार्वे'ति दीर्घे उन्मनायेत्यस्मात्क्त्वोल्यपि, अतो लोपे, उन्मनाय्येति रूपम्। अवगल्भशब्दादाचारेऽवगल्भेति क्विबन्तात्क्वो ल्यपि रूपम्। अत्र `उ'दित्यस्य `अवे'त्यस्य च उपसर्गस्वरूपस्य अनपगृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः। इह तु ओढायित्वेत्यत्र न ततेति व्यतिरेकदृष्टान्तोऽयम्। ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति– ज्ञापकस्येति। षाष्ठं वार्तिकं दर्शयति– उस्योमाङ्क्ष्विति। उसि, ओम्, आङ् एषां द्वन्द्वः। षष्ठ्स्य प्रथमे पादे `ओमाङोश्चे'ति सूत्रे इदं वार्तिकं पठतिम्। तद्व्याचष्टे- - उस्योमाङोश्च परयोरिति। `एङि पररूप'मित्यत#ः पररूपग्रहणानुवृतिं?त मत्वा आह- - पररूपं नेति. उसि तावदुदाहरति– औरुआईयदिति। उरुआआमात्मन ऐच्छदित्यर्थे `सुप आत्मनः' इति क्यजन्ताल्लङि उरुआईयशब्दादङ्गात्प्रागटि कृते `उस्यपदान्ता'दिति पररूपं प्राप्तमनेन निषिध्यते। अर्थवद्गर्हणपरिभाषा त्वनित्या, अस्मादेव भाष्योदाहरणात्। अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात्, क्यजन्ताल्लङि अङ्गस्य आटि कृते `ओमाङोश्चे'ति पररूपं प्राप्तमनेन निषिध्यते। आङि उदाहरति– औढीयदिति। आ ऊढः ओढः, तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृते `ओमाङोश्चे'ति पररूपं प्राप्तमनेन निषिध्यते। उदाहरणत्रयमिदं भाष्ये स्थितम्। तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात्तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याऽप्रसक्कतेराङि पररूपप्रतिषेधो व्यर्थः स्यात्। उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात्पृथक्करणाऽभावादोढशब्दात् प्रागाडागमे सति आङि पररूपप्राप्तेस्तन्निषेधोऽर्थवान् भवति। अतो ज्ञापकस्य सजातीयविषयत्वे `उस्योमाङ्क्षु' इत्याङ्ग्रहणम्, औढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः। ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह– आटश्चेति चशब्देनेति। `आटश्चे'ति सचकारः पुनर्वृद्धिविधानार्थः। तथा च आटोऽचि वृद्धिरेव यता स्यान्नाऽन्यत्पररूपमितिलभ्यते इत्यपि षष्ठाध्याये `ओमाङोश्चे'ति सूत्रे, `आटश्चे'ति सूत्रे च भाष्ये स्थितमित्यर्थः। एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चाऽत्र ज्ञापकमित्युक्तं भवति।

तत्त्वबोधिनी

422 भृशादिभ्यो। `भुवी'त्येतद्व्याचष्टे– भवत्यर्थ इति। भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्ष सुमनस्, उन्मनस्, इत्यादयो भृशादयः। `क्व दिवे'त्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे— ये रात्रावित्यादिना। प्रातिपदिकमिति। न त्वयं धातुः, `ग्रसेरा च' इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितत्वात्। एवं च वक्ष्यमाणज्ञापकं सङ्गच्छत इति भावः। अनुबन्ध इति। सङ्ग्रामेति मशब्दाकाराद्भिन्नोऽकारोऽनुबन्ध इत्यर्थः। तथा च अत्र `अतो गुणे' इति पररूपं ज्ञेयम्। यदि तु मकारादकारोऽनुबन्धः स्यात्तर्हि असङ्ग्रमतेत्यत्र `णौ चङी'त्युपधाह्यस्वः स्यात्। णिच्सन्नयोगेनाऽनुबन्धकरणे तु अनुदात्तेत्वलक्षणस्यात्मनेपदस्याऽप्रवृत्तया `णिचश्चे'ति कर्तृगामिनि क्रियाफल एवात्मनेपदं स्यान्न तु परगामिनीति विवेकः। सामथ्र्यादिति। केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादिति भावः। क्रियायोगाऽभावादुपसर्गो नेत्यभिप्रेत्याह—- समामाकारमिति। पूर्वपदमिति। तच्च समास एवं संभवति। तेन आन्दोलयित्वा प्रेङ्कोलयित्वेत्यादौ आ–प्रेत्यादीनां न पृथक्करणम्। अन्यथा तेषां क्त्वाप्रत्ययान्तेन समासे सति ल्यप् स्यादिति भावः। पृथक्करणस्य फलमाह– तेन#एति। सुमिमनायिषति उन्मिमनायिषतीत्यादौ मनश्शब्दस्य द्विर्वचनं पृथक्करणस्य फलमिति बोध्यम्। अवागल्भतेति। `आचारेऽवगल्भे'ति क्विब्विधौ अवेत्यस्य पृथक्करणाद्गल्भशब्दात्प्रागट्। किं तत्साजात्यमित्यत आह– तेनेति। उरुआआमिति। `माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी'त्यमरः। औरुआईयदिति। क्यज्नतादुरुआआशब्दाल्लङि अङ्गसयाऽऽटि च कृते `उस्यपदान्ता'दिति पररूपं प्राप्तम्। न चानर्थकोऽमुस् न ग्रहीष्यत इति वाच्यं, छिन्द्युर्भिन्द्युरित्यादावप्सुसोऽनर्थकत्वादागमसहितस्यैवार्थवत्त्वात्। तथा चाऽयः, अपुरित्यादावेव स्यात्। एवं चाऽयमेवाऽऽडागमस्य उसि परे प्रतिषेधोऽर्थवद्ग्रहपरिभाषाया अत्राऽप्रवृत्तौ ज्ञापक इति स्थितम्। अतएव `उस्यपदान्ता' दित्यत्राऽपदान्तात् किं, कोरुओति भाष्ये प्रत्युदाह्मतम्। `ओमाङोश्चे'ति पररूपं प्राप्तम्। आडागमस्याऽऽङि परे उदाहरणमाह– औढियदिति। यत्रादेशेनाऽपह्मतं तत्रापि यदि पृथक्कृतिस्तदा आङः परत्राऽऽटा भाव्यमित्याडागमस्याऽऽङि परे पररूपनिषेधो व्यर्थः स्यात्। तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः। `च'शब्दं प्रयुञ्जानः सूत्रकारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह— चशब्देनेति। षाष्ठे स्थितमिति। भाष्यकारोऽप्युक्तार्थे प्रमामभूत इति भावः। स्यादेतत्— `अवधीरयती' त्यादाववशब्दस्य पृथक्करणमस्ति वा, न वा ?। आद्ये बोपदेवेनाऽवशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि आववधीरदित्युदाह्मतं, तन्न संङ्ग्छेत्। द्वितीये तु ``इतीव धारामवधीर्य मण्डलीक्रियाश्रियाऽभण्डि तुरङ्गमैर्मही'ति श्रीहर्षप्रयोगो न सङ्गच्छेतेति चेत्। अवधीरेत्यस्यापि। प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाऽभावाच्च। यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति साधुः। धीरेत्यस्यैव धातुत्वे तु अवधीर्येत्यस्य साधुत्वमिति। तस्येति

Satishji's सूत्र-सूचिः

TBD.