TBD.
अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर् धातोः काले ऽधिकरणे ण्यत् प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतो ऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या। एकदेशविकृतस्य अनन्यत्वादमावास्याया वा 4-3-30 इत्यत्र अमावस्याशब्दस्य अपि ग्रहणं भवति। अमावसोरहं ण्यतोर् निपातयाम्यवृद्धिताम्। तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।
TBD.
–
694 अमावस्यद। अधिकरणे इति। निपातनलभ्यमिदम्। `अमे'त्यस्य विवरणम् – सहेति। `ऋहलोण्य'दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम्। कुत्वमिति। पचेण्र्यति `चजो'रिति कुत्वमिति भावः। ननु `पाणौ सृजेण्र्य'दिति व्यर्थम्, `ऋहलो'रित्येव सिद्धेरित्यत आह– ऋदुपधलक्षणस्येति। `ऋदुपदाच्चाऽक्लृपिचृतेः' इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः। पाणिसग्र्या रज्जुरिति। ण्यति `चजो'रिति कुत्त्वम्। समवपूर्वाच्चेति। वार्तिकमिदम्। `सृजेण्र्य'दिति शेषः।
575 वृद्धौ सत्यामिति। तेन `अमावास्याया वे'ति विहितस्तद्धितो ह्यस्वपक्षेऽपि सिध्यति, एकदेशविकृतरयाऽनन्यत्वात्। यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद्दुर्लभः। अथापि बाहुलकाल्लभ्येत, एवमपि ण्यदन्तमनूद्य विहितस्तद्धितो यदन्तान्न स्यादिति दिक्। ऋहलोः। पञ्चम्यर्थे षष्ठी। `ऋ' इति ऋधातोर्न ग्रहमं किंतु ऋवर्णस्य, हला साहचर्यात्, परं कार्यमिति निर्देशात्, `ईडवन्दे' इत्यादिलिङ्गाच्च। `ऋहलो'रित्येतदनुवर्तमानस्य धातोर्विशेषणं। विशेषणेन तदन्तविधिस्तदेतदाह– - ऋवर्णान्तादिति। अत्रेदमवधेयं– मूलपुस्तकेषु सर्वत्र `विभाषा कृवृषो'रित्यत्र पक्षे ण्यद्भवतीति वक्तुं `ऋहलोण्र्य'दिति सूत्रं पठित्वा पश्चात् `युग्यं च पत्रे', `अमावस्यदन्यतस्या'मिति पठितम्। मनोरमायां तु सूत्रपाठक्रमेण `युग्यं च पत्रे', `अमावस्यदन्यतरस्या'मिति व्याख्याय `ऋहलोण्र्य'दितिसूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति।
TBD.