Table of Contents

<<3-1-120 —- 3-1-122>>

3-1-121 युग्यं च पत्रे

प्रथमावृत्तिः

TBD.

काशिका

युग्यम् इति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेन इत् पत्रं वाहनम् उच्यते। युग्यो गौः। युग्यो ऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्रे इति किम्? योग्यम् अन्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

693 युग्यं च पत्रे। क्यबन्तं निपात्यते। ण्यतोऽपवादः। युग्यो गौरिति। शकटादिना योक्तव्य इत्यर्थः। क्यपि कुत्वं निपातनात्। पत्रं वाहनमिति। पतन्ति गच्छन्त्यनेनेत्यर्थे `दाम्नीशसे' त्यादिना करणे ष्ट्रन्। ण्यति तु योग्यमिति स्यात्।

तत्त्वबोधिनी

574 पत्रं वाहनमिति। पतन्त्यनेनेत्यर्थे `दाम्नीशसे'त्यादना करणे ष्ट्रन्। युग्यो गौरिति। यद्यपि `तद्वहति रथयुगप्रासङ्ग'मिति तद्धितयताऽपि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम्। अन्यथा हि योग्यो गौरिति स्यात्। अन्ये त्वाहुः- - युग्यो हस्तीति हि वृत्तावुदाह्मतं,तत्तु तद्धितेन न सिध्यति। न हि हस्तीयुगं वहति। कृता तु सिध्यति। युज्यते संबध्ते ह्रसौ कुथादिनेति। ततश्चात्र वैयथ्र्यशङ्कैव नास्तीति दिक्।

Satishji's सूत्र-सूचिः

TBD.