Table of Contents

<<4-3-29 —- 4-3-31>>

4-3-30 अमावास्याया वा

प्रथमावृत्तिः

TBD.

काशिका

अमावास्याशब्दाद् वुन् प्रत्ययो भवति वा तत्र जातः इत्येतस्मिन् विषये। सन्दिवेलद्यृतुनक्षत्रेभ्यो ऽण् 4-3-16 इत्यादिषु पाठातणो ऽपवादः। अमावस्यकः, आमावास्यः। एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति। अमावस्यकः, आमावस्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1382 अमावास्याया वा। `वु'निति शेषः। पक्षे सन्धिवेलादित्वादण्। एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः।

तत्त्वबोधिनी

1086 अमावास्याया वा। सन्धिवेलाद्यणोऽपवादः। `अमावस्यदन्यतरस्या'मिति सूत्रेणाऽमापूर्वाद्वसेण्र्यति वृद्धौ पक्षे ह्यस्वत्वं निपात्यत इति ह्यस्वमध्यस्याप्यमावस्याशब्दस्येह ग्रहणम्, प्रकृतिग्रहणे विकृतेरपि ग्रहणात्। अमावस्यकः। आमावस्यः। ये त्विह सूत्रे सन्धिवेलादिषु च ह्यस्वोपधं पठन्ति, तेषां तु दीर्घोपधस्य न स्यात्, विकृतिग्रहणेन प्रकृतेरग्रहणादिति हरदत्तादयः। वस्तुतस्तु वृद्धिप्रकृतिभूतस्यानुकरणमिदमित्याश्रित्य ह्यस्वोपधापाठोऽपि समर्थयितुं शक्यत इत्यन्ये।

Satishji's सूत्र-सूचिः

TBD.