Table of Contents

<<3-1-122 —- 3-1-124>>

3-1-123 छन्दसि

निष्टर्क्यदेवहूयप्रणीयौन्नीयौच्छिष्यमर्यस्तर्यध्वर्यखन्यखान्यदेवयज्याऽअपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्यौपचाय्यपृडानि

प्रथमावृत्तिः

TBD.

काशिका

निष्टर्क्याऽदयः शब्दाश् छन्दसि विषये निपात्यन्ते। यदिह लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। निष्टर्क्यः इति कृती छेदने इत्यस्मान् निस्पूर्वात् क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। निष्टर्क्यं चिन्वीत पशुकामः। देवशब्दे उपपदे ह्वयतेर् जुहोतेर् वा क्यप्, दीर्घस्तुगभावश्च। देवहूयः। प्रपूर्वादुत्पूर्वाच् च नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच् छिषेः क्यप्। उच्छिष्यः। मृङ् प्राणत्यागे, स्तृञाच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत् प्रत्ययः। मर्यः। स्तर्या। स्त्रियाम् एव निपातनम्। ध्वर्यः। खनेर्यत्। खन्या। एतस्मादेव ण्यत्। खान्यः। देवशब्दे उपपदे यजेर्यत्। देवयज्या। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात् पृच्छेः क्यप्। आपृच्छ्यः। प्रतिपूर्वत् सीव्यतेः क्यप् षत्वम् च। प्रतिषीव्यः। ब्रह्मण्युपपदे वदेर् ण्यत्। ब्रहमवाद्यम्। भवतेः स्तौतेश्च ण्यत्, आवदेशश्च भवति। भाव्यम्। स्ताव्यः। उपपूर्वस्य चिनोतेः ण्यदायादेशौ। उपचाय्यपृडम्। पृडे चोत्तरपदे निपातनमेतत्। हिरण्य इति वक्तव्यम्। हिरण्यादन्यत्र उपचेयपृडम् एव। निष्टर्क्ये व्यत्ययं विद्यान् निसः षत्वं निपातनात्। ण्यदायादेश इत्येतावुपचाय्ये निपाततौ। ण्यदेकस्माच् चतुर्घ्यः क्यप् चतुर्भ्यश्च यतो विधिः। ण्यदेकस्माद् यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.