Table of Contents

<<3-1-110 —- 3-1-112>>

3-1-111 ई च खनः

प्रथमावृत्तिः

TBD.

काशिका

खनेर् धातोः क्यप् प्रत्ययो भवति, ईकारश्च अन्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारो ये विभाषा 6-4-43 इति आत्त्वबाधनार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

681 ई च खनः। चात्क्यविति। खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः। ह्यस्व सुपठ इति। ह्यस्वस्य इकारस्य आद्गुणेन `खेय'मिति सिद्धेरिति भावः।

तत्त्वबोधिनी

565 ह्यस्वः सुपठ इति। दीर्घं पठतः सूत्रकृतस्त्वयमाशयः- दीर्घनिर्देशः इ-इ इति प्रश्लेषार्थस्तत्र द्वितीय इकारो `ये विभाषा' इत्यात्वबाधनार्थः। अन्यथा `ये विभाषा' इत्यस्यावकाशः– खायते खन्यते। इत्वस्यावकाशो यस्मिन्पक्षे आत्वंनास्ति। आत्वपक्षे तु उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। `ये विभाषा' इत्यत्र हि ये इति विषयसप्तमी। तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरङ्गम्। इकारस्तु क्यपा सह विधानाद्बहिरङ्गः। तथा चान्तरङ्गस्यात्वस्य बाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोच्चारणं कृतमिति। आत्वं तु बहिरङ्गं , ये इति परसप्तम्याश्रयात्। एवं च इत्वेनाऽऽत्वबाधो न्याय्य एवेति दीर्घो न पठनीयः। ह्यस्वपाठे मात्रालघवमस्तीति तदनुरोदेन ये इतिपरसप्तम्याश्रयणमपि युक्तमिति। स्यादेतत्–\ति चेति ह्यस्वादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह आद्गुणे तस्याऽसिद्धतया `ह्यस्वस्य पिति इति तुक् स्यात्, `षत्वतुकोरसिद्धः' इति षत्वे तुकि चकर्तव्ये एकादेशशास्त्रस्याऽसिद्धत्वस्वीकारात्। अतो दीर्घ एव विधेय इति चेत्। मैवम्। `पदान्तपदाद्योरादेशोऽसिद्धो न त्वन्योऽपी'ति सिद्धान्तात्। अन्यथा व#ऋक्षे छत्रमित्यत्र ङावाद्गुणस्याऽसिद्धतया छे चेति ह्यस्वाश्रयो नित्यस्तुक् स्यात्। इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक्। `भृञोऽसंज्ञाया'मित्यसंज्ञाग्रहणसामथ्र्याद्भार्येत्यत्र सूत्रान्तरेणापि क्यब्न भविष्यतीत्यत आह— पुंसि चरितार्थ इति। भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः। तदनुबन्धेति। डुभृञ् इत्यनेकानुबन्धत्वाद्बिभर्तेः क्यपोऽप्रसङ्ग इति भावः।

Satishji's सूत्र-सूचिः

TBD.