Table of Contents

<<3-1-109 —- 3-1-111>>

3-1-110 ऋदुपधाच्चाकॢपिचृतेः

प्रथमावृत्तिः

TBD.

काशिका

ऋकारौपधाच् च धातोः क्यप् प्रत्ययो भवति क्ल्\उ0325पिचृती वर्जयित्वा। वृतु वृत्यम्। वृधु वृध्यम् अक्ल्\उ0325पिचृतेः इति किम्? कल्प्यम्। चर्त्यम्। तपरकरणम् किम्? कृ\उ0304त संशब्दने। ण्यदेव भवति कीर्त्यम्। पाणौ सृजेर् ण्यद् वक्तव्यः। पाणिसर्ग्या रज्जुः। समवपूर्वाच् च। समवसर्ग्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

680 ऋदुपधाच्चा। क्लृप्?चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः। ननु तपरकरममिह व्यर्थमित्यत आह– अनित्यण्यन्ता इति। णिजन्तात्तु यदेवेति। `अचो य'दित्यनेनेति भावः।

तत्त्वबोधिनी

564 क्लृपिचृत्योस्त्विति। कृपू सामर्थ्ये। चृती हिंसाग्रन्थनयोः। कल्प्यमिति। कृपेर्लत्वस्याऽसिद्धत्वात्, ऋलृवर्णयोः सावण्र्यविधानाच्च ऋदुपधत्वम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति कॢपिचृती वर्जयित्वा। The affix क्यप्‌ may be used following any verbal root which has a ऋकारः as its penultimate letter, barring the two verbal roots √कृप् (कृपूँ सामर्थ्ये १. ८६६) and √चृत् (चृतीँ हिंसाग्रन्थनयोः ६. ४९).

उदाहरणम् - दृश्यम् derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

दृश् + क्यप् 3-1-110
= दृश् + य 1-3-3, 1-3-8, 1-3-9
= दृश्य Note: The affix क्यप् is a कित्। This allows 1-1-5 to prevent 7-3-86 from applying.

“दृश्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.