Table of Contents

<<3-1-111 —- 3-1-113>>

3-1-112 भृञो ऽसंज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

भृञो धतोः असंज्ञायां विषये क्यप् प्रययो भवति। भृत्याः कर्मकराः। भर्तव्याः इत्यर्थः। असंज्ञायाम् इति किम्? भार्यो नाम क्षत्रियः। सम्पूर्वाद् विभाषा। सम्भृत्याः, सम्भार्याः। संज्ञायां पुंसि दृष्टत्वान् न ते भार्या प्रसिध्यति। स्त्रियां भावाधिकारो ऽस्ति तेन भार्य प्रसिध्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

764 स्मृतिबोधिन्युपपदे भूतानद्यतने धातोरॢट्. लङोऽपवादः.. वस निवासे.. स्मरसि कृष्ण गोकुले वत्स्यामः. एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगेऽपि..

बालमनोरमा

682 भृञोऽसंज्ञायाम्। `क्य'बिति शेषः। भृत्याः कर्मकुर्वाणा इत्यर्थः। `कर्मणि भृतौ' इति कृञष्टः। भर्तव्या इति। वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः। ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह- - क्रियाशब्दिति। भार्या नाम क्षत्रिया इति। क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः। अथ कथं भार्येति। क्यपा भवितव्यमित्याक्षेपः। ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात् `भृञोऽसंज्ञाया'मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह– संज्ञापर्यादुसत्विति। समाधत्ते– सत्यमिति। `डु भृञ् धारणपोषणयोः' इति जुहोत्यादौ ह्यस्वान्तो ड्वित्, ञिच्च। `भृ? भत्र्सने, भरणेऽपी'ति क्र्यादौ दीर्घान्तः। आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः। क्यप्तु भरतेरेवेति। `भृञ् भरणे' इति भ्वादौ ह्यस्वान्तो ञित्। अस्यैव `संज्ञायां समजनिषदे'त्त्र, `भृञोऽसंज्ञाया'मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य। न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः। कुत इत्यत आह– तदनुबन्धकेति। `तदनुबन्धकग्रहणे नातदनुबन्धकस्ये'ति परिभाषयेत्यर्थः। बिभर्तेः क्यबभावे बीजमिदम्। क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.