Table of Contents

<<3-1-108 —- 3-1-110>>

3-1-109 एतिस्तुशास्वृदृजुषः क्यप्

प्रथमावृत्तिः

TBD.

काशिका

सुप्यनुपसर्गे भावे इति निवृत्तम्। सामान्येन विधानमे तत्। एति स्तु शास् वृ दृ जुषित्येतेभ्यः क्यप् प्रत्ययो भवति। इत्यः। स्तुत्यः। शिष्यः। वृत्यः। आदृत्यः। जुष्यः। क्यपिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। ओरावश्यके 3-1-125 इति ण्यतं बाधित्वा क्यबेव भवति। अवश्य् स्तुत्यः। वृग्रहणे वृञो ग्रहणम् इष्यते, न वृङः। वार्याः ऋत्विजः। शंसिदुहिगुहिभ्यो वेति वक्तव्यम्। शस्यम्, शंस्यम्। दुह्यम्, दोह्यम् , गुह्यम्, गोह्यम्। आङ्पूर्वादञ्जेः संज्ञायाम् उपसङ्ख्यानम्। आज्यं घृतम्। कथम् उपेयम्? एः एतद् रूपं, न इणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

779 एभ्यः क्यप् स्यात्..

बालमनोरमा

678 एतिस्तु। एति, स्तु, शास्, वृ , दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्प्रञ्चमी। सुप्यनुपसर्गे भाव इति निवृत्त्म्। तदाह– एभ्यः क्यप्स्यादिति।

तत्त्वबोधिनी

562 एतिस्तु। एभ्य इति, सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः। एतीतीण एव ग्रहणं, नेङिकोः, तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः। तथा च `रक्षार्थं वेदानामध्येयं व्याकरण'मिति भाष्ये यदेव प्रयुक्तः। `इण्वदिक इति वक्तव्यम्' इति वचनादिकोऽपि भवतीत्यधीत्या मातेत्युदाहरन्ति। [ अधीत्या = स्मत्र्तव्या]।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्यः क्यप् स्यात् । The affix क्यप्‌ may be used following the verbal root √इ (इण् गतौ २. ४०), √स्तु (ष्टुञ् स्तुतौ २. ३८), √शास् (शासुँ अनुशिष्टौ २. ७०), √वृ (वृञ् वरणे ५. ८), √दृ (दृङ् आदरे ६. १४७) or √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८).

उदाहरणम् – स्तुत्यः derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८).

स्तु + क्यप् 3-1-109
= स्तु + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops the गुणादेश: which would have been done by 7-3-84.

Example continued under 6-1-71