Table of Contents

<<2-4-82 —- 2-4-84>>

2-4-83 न अव्ययीभावादतो ऽम् त्वपञ्चम्याः

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस् तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवनम् एव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अतः इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्याः इति किम्? उपकुम्भादानय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

915 अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमी विना अमादेशश्च स्यात्.. गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्..

बालमनोरमा

649 तथाच अव्ययीभावसमासादुत्पन्नानां सुपामव्ययादाप्सुप इति लुक् स्यादिति शङ्कायामाहनाव्ययीभावात्। `अम् तु अपञ्चम्या' इति छेदः। `नाव्ययीभावदतः' इत्येकं वाक्यम्। `ण्यक्षत्रियार्षे'त्यतो लुगित्यनुवर्तते। `अव्ययादाप्सुपः' इत्यतः `सुप' इति च। अता अव्ययीभावो विशेष्यते। तेन तदन्तविधिः। तदाह अदन्तादव्ययीभावात्सुपो न लुगिति। `अम् तु अपञ्चम्याः' इति वाक्यान्तरम्। पञ्चमीभिन्नस्य तु सुपोऽमादेशः स्यात्। पञ्चम्यास्तु अम्न भवतीति लभ्यते। तदाह–तस्य पञ्चमीं विना अमादेश इति। अत्राऽपञ्चम्या इति प्रतिषेधोऽयमनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि। एवंचाऽदन्तादव्ययीभावात्परस्य सुपो न लुक्, किंत्वमादेशः। पञ्चम्यास्तु लुगमादेशश्च न भवतीति स्थितिः। सूत्रे एतत्सूचनार्थमेव तुशब्दः। `अव्ययीभावादतोऽम्त्वपञ्चम्याः' इत्येवोक्तौ तु अदन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादोऽमादेशः स्यादित्येव लभ्येत। एवं सति पञ्चम्या अमोऽभावे `अव्ययादाप्सुपः' इति लुक् स्यात्। अतो लुङ् निषिध्यत इत्यास्तां तावत्। अपदिशमिति। पञ्चमीभिन्नविभक्तीनामुदाहरणम्। पञ्चम्यास्तु अपदिशादित्युदाहार्यम्। यद्यपि नपुंसकह्यस्वत्वेनाऽप्येतत्सिध्यति, `अव्ययीभावश्चे'ति नपुंसकत्वस्य वक्ष्यमाणत्वात्। तथापि `गोस्त्रियो'रिति सूत्रं चित्रगु अतिखट्व इत्याद्यर्थमावश्यकमितीहापि न्याय्यत्वादुपन्यस्तम्। तदेवमव्ययमिति भाष्याऽदृष्टेनापि योगविभागेनाऽपदिशमिति रूपसाधनं वृद्धसंमतमित्याह- क्लीबेऽव्ययमिति।

तत्त्वबोधिनी

574 नाव्ययी। अत्र `अपञ्चम्याः' इथि प्रतिषेधोऽनन्तरत्वादम एव न तु व्यवहितस्याऽलुकोऽपि। अमुमेवार्थं द्योतयितुं सूत्रे `तु' शब्दः। तस्य पञ्चमीं विनेति। एवं चाऽदन्तादव्ययीभावात्परस्य पञ्चमभिन्नस्य सुपो लुङ् न, पञ्चम्यास्तु लुगमादेशावुभावपि न भवत इति स्थितम्। अतः किम्?। अधिहरि। दिशयोरिति। दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रुपम्। दिश्शब्दस्य शरदादिषु पाठाट्टच्।

Satishji's सूत्र-सूचिः

TBD.