Table of Contents

<<2-4-67 —- 2-4-69>>

2-4-68 तिककितवाऽदिभ्यो द्वन्द्वे

प्रथमावृत्तिः

TBD.

काशिका

तिकाऽदिभ्यः कितवाऽदिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग् भवति। तैकायनयश्च कैतवायनयश्च, तिकाऽदिभ्यः फिञ् 4-1-158, तस्य लुक्, तिककितवाः। वाङ्खरयश्च भान्डीरथयश्च, अत इञ् 4-1-95, तस्य लुक्, वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक् 4-1-99, तस्य लुक्, उपकलमकाः। पाफकयश्च नारकयश्च, अत इञ् 4-1-95, तस्य लुक्, पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ् 4-1-95), तस्य लुक्, बकनखश्वगुदपरिणद्धाः। उब्जशब्दातत इञ् (*4,1.95, ककुभशब्दात् शिवादिभ्यो ऽन् 4-1-112 तयोर् लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च, अत इञ् 4-1-95 तस्य लुक्, लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर् लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ् 4-1-95, तस्य लुक्, भ्रष्टकक्पिष्ठलाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ् 4-1-95, तस्य लुक्, कृष्णाजिनकृष्णसुनदराः। आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात् गर्गादिभ्यो यञ् 4-1-105), दासेरकशब्दातत इञ् (*4,1.95, तयोर्लुक्, अग्निवेशदासेरकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1134 तिककितव। तैकायनयश्च कैतवायनयश्चेति। द्वन्द्वविग्रहप्रदर्शनम्। तिककितवा इति। `द्वन्द्वे' इति सप्तमीनिर्देशात्पदद्वयादपि फिञो लुक्।

तत्त्वबोधिनी

945 तिककितवादिभ्यो। यद्यपि द्वन्द्वरूपाण्येव गणे पठ\उfffद्न्ते तिकादीनि पूर्वपदानि कितवादिन्युत्तरपदानि, तथापि `तिकादिभ्यः'इत्युक्ते पुर्वपदेष्वेव लुगाशङ्क्येत, इष्यन्ते तूत्तरपदेष्वपि, अतः `तिककितवादिभ्यः'इत्युक्तम्। तिककितवा इति। अन्येऽप्यत्रोदाहर्तव्याः—औपकायनाश्च लामकायनाश्च। `नडादिभ्यः फक्र्' तस्य लुक्। उपकलमकाः। भ्राष्ट्रकयश्च कापिष्ठलयश्च। `अत इञ'तस्य लुक्। भ्राष्ट्रककपिष्ठलाः। काष्र्णाजिनयश्च कार्ष्णसुन्दरयश्च। `अत इञ्'तस्य लुक्। कृष्णाजिनकृष्णसुन्दरा इत्यादि।

Satishji's सूत्र-सूचिः

TBD.