Table of Contents

<<2-4-66 —- 2-4-68>>

2-4-67 न गोपवनाऽदिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

गोपवनाऽदिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग् न भवति। बदाद्यनतर्गणो ऽयम्। ततो ऽञो गोत्रप्रत्ययस्य यञञोश्च 2-4-64 इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः। गोपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एव अष्टौ गोपवनाऽदयः। परिशिष्टानां हरितादीनं प्रमादपाठः। ते हि चतुर्थे बिदाऽदिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग् भवत्येव, हरितः, किंदासाः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1133 न गोप। बिदाद्यन्तर्गणोऽयमिति। ततश्च अञः `यञञोश्चे'ति प्राप्तस्य लुङ् नेति भावः।

तत्त्वबोधिनी

944 विदाद्यन्तर्गणोऽयमिति। `यञञोश्चे'ति लुगत्र प्राप्नोतीति भावः।

Satishji's सूत्र-सूचिः

TBD.