Table of Contents

<<2-4-35 —- 2-4-37>>

2-4-36 अदो जग्धिर् ल्यप् ति किति

प्रथमावृत्तिः

TBD.

काशिका

अदो जग्धिः आदेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, न अनुबन्धः। तेन नुम् न भवति। एवं वच्यादीनाम् अपि। इह कस्मान् न भवति, अन्नम्? अन्नाण्णः 4-4-85 इति निपातनात्। जग्धौ सिद्धे ऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते। ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्। ति इति किम्? अद्यते। किति इति किम्? अत्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

886 अदो जग्धिः। धत्वमिति। जघ्ध् त इति स्थिते `झषस्तथो'रिति तकारस्य धकार इत्यर्थः। झरो झरीति। अनेन पाक्षिको धकारलोप इत्यर्थः। आदिकर्मणि क्त इति। व्याख्यातं प्राक्। उदाहरणान्तरविवक्षया पुनरुपन्यासः। प्रकृतः कटं स इति।कर्तुमारब्धवानित्यर्थः। कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया। कर्तुरभिहित्वात्तच्छब्दात्प्रथमा। चकाराद्भावे कर्णणि चेत्युक्तम्। तत्र कर्मण्युदाहरति– प्रकृतः कटस्तेनेति। प्रक्षीणः स इति। आदिकर्मणि क्तः।

तत्त्वबोधिनी

730 उच्चारणार्थ इति। इदित्त्वे तु नुम् स्यादिति भावः। घत्वमिति। `झषस्तथो'रित्यनेन। झरो झरीति। अनेन पाक्षिको धलोप इत्यर्थः। इदानीं क्तार्थान्प्रपञ्चयति– आदिकर्मणि। व्याख्यातम्। प्रकृतः कटमिति। कटं कर्तुमारब्धवानित्यर्थः। `प्र'शब्द आदिकर्मद्योतनार्थः। क्तेनोक्तत्कर्तरि प्रथमा। कुशल इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.