Table of Contents

<<2-3-55 —- 2-3-57>>

2-3-56 जासिनिप्रहणनाटक्राथपिषां हिंसायाम्

प्रथमावृत्तिः

TBD.

काशिका

जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर् भवति। जसु हिंसायाम्, जसु ताडने इति च चुरादौ पठ्यते, तस्य इदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य। चौरस्य उज्जासयति। वृषलस्य उज्जासयति। निप्रहण इति सग्घातविगृहीतविपर्यस्तस्य ग्रहणम्। चौरस्य निप्रहति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्य उन्नाटयति। वृषलस्य उन्नाटयति। चौरस्य उत्क्राथायति। वृषलस्य क्राथयति। निपातनाद् वृद्धिः। अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंसार्थाः इति। तत्र घटादयो मितः इति मित्संज्ञायां मितां ह्रस्वः 6-4-92 इति ह्रस्वत्वं स्यात्। चौरस्य पितष्टि। वृषलस्य पिनष्टि। हिंसायाम् इति किम्? धानाः पिनष्टि। शेषे इत्येव, चौरम् उज्जासयति। एशाम् इति किम्? चौरं हिनस्ति। निप्रहण इति किम्? चौरं विहन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

609 जासिनिप्र। कर्मणि शेषे इत्यनुवर्तते। तदाह–हिंसार्थानामित्यादिना। इदमपि समासाऽभावार्थमेव। चौरस्योज्जासनमिति। `जसु ताडने' `जसु हिसायाम्' इति चुरादौ। वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः। `जसु मोक्षणे' इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च। निप्राविति। निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः। तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः। समस्तावुदाहरति–चौरस्य निप्रहणनमिति। वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः। `हन्तेरत्पूर्वस्ये'ति णत्वम्। विपर्यस्तावुदाहरति–प्रणिहननमिति। `नेर्गदे'ति णत्वम्। हन्तेर्नकारस्य तु न णत्वम्, `अट्कुप्वाङ्' इति नियमात्, नेर्नकारस्य तदनन्तर्भावात्। व्यस्तावुदाहरति–निहननं प्रहणमनं वेति। निमित्ताऽभावान्निहननमित्यत्र `बन्तेरत्पूर्वस्य' इति णत्वं न। चुरादिरिति। `नट नृत्तौ' इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः। चौरस्योन्नाटनमिति। उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः। चौरस्य क्राथनमिति। `क्रथ हिंसायाम्' इति घटादौ। `घटादयो मितः' इति तस्य मित्त्वेऽपि `मितां ह्यस्वः' इति न भवति, इह दीर्घनिपातनात्। वृषलस्य पेषणमिति। हिसेत्यर्थः। व्यपह्मपणोः। शेषपूरणेन सूत्रं व्याचष्टे–शेषे कर्मणि षष्ठी स्यादिति। समौ तुल्यौ अर्थौ ययोरिति विग्रहः। शकन्ध्वादित्वात्पररूपम्। एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः। इदमपि समासनिवृत्त्यर्थमेव। ननु `पण व्यवहारे स्तुतौ चे'ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह–द्यते इति। द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः। तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः। शतस्य व्यवहरणं पणनं वेति। द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः। केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात्। तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः।

तत्त्वबोधिनी

545 जासि। `जसु ताडने,' `जसु हिंसायाम्' इति च चुरादिस्तस्येदं ग्रहणं न तु दैवादिकस्य `जसु मोक्षणे' इत्यस्य, जासीति निर्देशात्, `हिंसायाम्' इति वचनाच्च। निप्रहणनमिति। `हन्तेरत्पूर्वस्य'इति णत्वम्। प्रणीति। `नेर्गद–'इति णत्वम्। चुरादिरिति। `नट नृत्तौ' इति तु गृह्रते, दीर्घनिर्देशादिति भावः। क्राथनमिति। `क्रथ हिंसायाम्'इति घटादौ पठ\उfffद्ते, तस्य मित्त्वेऽपि इह निपातनाद्वृद्धिः। मित्त्वफलं तु निपातनात्परत्वात् `चिण्णमुलोः' इति दीर्घे चरितार्थमिति घटादौ वक्ष्यति। यत्तु हरदत्तेनोक्तम्—``घटादिपाठो `घटादयः षितः'इत्यातिदेशिकषित्त्वे अङ्यथा स्यादित्येतदर्थ''इति। तन्मन्दम्। `घटादयः षितः' इति हि मध्ये सूत्रितम्। तेन पूर्वेषां त्वरत्यन्तानामेव षित्त्वं, न तु ज्वरा दीनां परेषामिति। अतएव `त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च' इति घटादौ वक्ष्यति।

Satishji's सूत्र-सूचिः

TBD.