TBD.
व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर् भवति। द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः। शतस्य व्यवहरति। सहस्रस्य व्यवहरति। शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान् न भवति? स्तुत्यर्थस्य पनतेरायप्रत्यय इष्यते। समर्थयोः इति किम्? शलाकां व्यवहरति। विक्षिपति इत्यर्थः व्राहमणान् पणायते। स्तौति इत्यर्थः। शेषे इत्येव, शतं पणते।
TBD.
–
610 समर्थयोः किमिति। व्यवहारार्थकयोरिति किमर्थमित्यर्थः। शलाकाव्यवहार इति। प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह–गणनेत्यर्थ इति। वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम्। अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः। ब्राआहृणपणनमिति। पणतेः प्रत्युदाहरणम्। अत्र पणिर्न व्यवाहारार्थ इत्याह–स्तुतिरित्यर्थ इति। वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः। अत्रापि अस्त्येव समास इति भावः।
546 पणनमिति। `स्तुतावेव' इति वक्ष्यमाणत्वादायस्याऽभावः। ब्राआहृणपणनमिति। `आयादय आद्र्धधातुके वा' इत्यायस्य विकल्पः।
TBD.