TBD.
मितो धातवः घटादयो मितः इत्येवम् आदयो ये प्रतिपादिताः, तेषाम् उपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वा इत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा। तेन उत्क्रामयति, सङ्क्रामयति इत्येवम् आदि सिद्धं भवति।
TBD.
707
395 मितां ह्यस्वः। `ऊदुपधाया गोहः' इत्यत उपधाया इति, `दोषो णौ' इत्यतो णाविति चानुवर्तते। तदाह – मितामुपधाया इत्यादिना। ज्ञपयतीति। णिचि उपधावृद्धौ ह्यस्व इति भावः। यम च परिवेषणे। चान्मिदिति। `इति अनुकृष्यते' इति शेषः। यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः। मित्संज्ञक इति वा। परिवेषणामिह वेष्टनमिति। `पिरवेषस्तु परिधि'रिति कोशादिति भावः। न तु भोजनमिति। भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारे `ण्यासश्रन्थो युच्'। क्लीबत्वं लोकात्। `भोजने'त्येव क्वचित्पाठः। भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः। भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः। परिवेष्टत इत्यर्थ इति। अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम्। नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं, `न कम्यमिचमा'मिति मित्?तवप्रतिषेधप्रकरणस्थे `यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात्। `यमोऽपरिवेषणे' इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात्। अत एव `यमिर्भोजनातोऽन्यत्र न मि'दिति व्याख्यातं मूलकृता। भोजनायां तु `यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत्। चह परिकल्पने इति। इत आरभ्य `चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते। अतस्तेषां मित्त्वण्णिचि ह्यस्वः। तदाह - चहयतीति। नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह– कथादाविति। `कथादयोऽदन्ता'इति वक्ष्यते। तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः। तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे `अचचह'दिति रूपमस्ति फलमित्यर्थः। चप इत्येके इति। `चह परिकल्पने' इत्यस्य स्थाने `चपे'त्येके पठन्तीत्यर्थः। `रह त्यागे इत्येके' इत्यपि तथैव व्याख्येयम्। एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः। `रह त्यागे'इत्यस्यापि कथादिपाठफलमाह– कथादेस्तु अररहदिति। अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः। बल प्राणने। `चे'त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह – बलयतीति।
345 वेष्टनमिति। `परिवेषस्तु परिधि'रित्यमरः। न त्वित्यादि। अयं भावः– घटादौ `यमोऽपरिवेषणे' इति पठितं, तत्र हि परिवेषणमिति हेतुमण्ण्यन्तस्य रूपम्। हेतुमण्ण्यन्तस्य हि भोजना वेष्टना चाऽर्थः। तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति। यद्यपि घटादौ `यच्छतिर्भोजनातोऽन्यत्र मिन्ने'ति व्याख्यातं तथाप्यत्रत्यग्रन्थानुगुण्येनोपपलक्षणतया तद्व्याख्येयमित्याहुः। अत्रेदं बोध्यं- - घटादौ `यमोऽपरिवेषणे' इत्यत्र परिपूर्वकस्य विषेर्णिजन्तस्य ल्युटि रूपम्, `यम च परिवेषणे' इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य। तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति। वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्त्वस्य निषेधेऽपि `यम च परिवेषणे' इत्यनेन मित्त्वं सिध्यतीति दिक्।
TBD.