Table of Contents

<<2-3-47 —- 2-3-49>>

2-3-48 सा आमन्त्रितम्

प्रथमावृत्तिः

TBD.

काशिका

सम्बोधने या प्रथमा तदन्तं शब्दरूपम् आमन्त्रितसंज्ञं भवति। तथा च एव उदाहृतम्। आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वम् अविद्यमानवत् 8-1-72 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सामन्त्रितं। प्रातिपदिकार्तसूत्रोपात्ता प्रथमा `सा' इत्यनेन परामृश्यते। `संबोधने चे'त्यतः `संबोधने' इत्यनुवर्तते। तदाह-संबोधने इत्यादिना। `तदन्त'मिति प्रत्ययग्रहणपरिभाषालभ्यम्। महासंज्ञाकरणात्संज्ञाविधावपि तदन्तग्रहणम्। अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा।

तत्त्वबोधिनी

362 सामन्त्रितम्। `सम्बोधने चे'त्यतः `सम्बोधने'इत्यनुवर्तते। `से'त्यनेन प्रथमा निर्दिश्यते। महासंज्ञाकरणसामथ्र्यात्संज्ञाविधावपरि तदन्तग्रहणम्। आमन्त्रणमामन्त्रितम्। उपचारात्तत्साधने वृत्तिः। विभक्त्यन्तेन चामन्त्र्यते न केवलया विभक्त्येत्याशयेनाह—तदन्तमिकि।

Satishji's सूत्र-सूचिः

TBD.