TBD.
आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनम् आरभ्यते। सम्बोधने च प्रथमा विभक्तिर् भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।
TBD.
892 प्रथमा स्यात्. हे राम. इति प्रथमा.
526 संबोधने च। इहेति। संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः। संबोधमभिमुखीकृत्य ज्ञापनम्। हे रामेति। `मां पाही'ति शेषः। इह रामं प्रति मद्रक्षणं ज्ञाप्यम्। नच `हे राजन्सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात्। श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा। ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते। न तु विधेयविषया। तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः। [इति प्रथमा]।
473 सम्बोधने च। मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः। इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम्। तथा च `व्रजानि देवदत्त'इत्यादौ `एकत्ङ् वाक्य'मिति वाक्यत्वे सिद्धे `आमन्त्रतस्य चे'ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्, `समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः'इति वार्तिकात्। तथा चोक्तं—`संबोधनपद'यच्च तत् क्रियाया विशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथा सति' इति। एवं च `राम मां पाही'ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः। `व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः। इति प्रथमा।
TBD.