Table of Contents

<<2-3-29 —- 2-3-31>>

2-3-30 षष्ठ्यतसर्थप्रत्ययेन

प्रथमावृत्तिः

TBD.

काशिका

दक्षिणौत्तराभ्याम् अतसुच् 5-3-28 इति वक्ष्यति, तस्य इदं ग्रहनम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर् भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

601 षष्ठ\उfffद्तसर्थ। एतद्योगे इति। `दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः' इत्यारभ्य `आहि च दूरे' `उत्तराच्चे'त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः। तत्र `दक्षिणोत्तराभ्यामतसुच्' इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः। यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात्। दिक्शब्देतीति। `अन्यारादि'ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः। दक्षिणत इति। सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच्। दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः। एवं देशे काले च। पुर इति। पूर्वाशब्दादस्तात्यर्थे`पूर्वाधरावराणामसि पुरधवश्चैषाम्' इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च। पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः। पुरस्तादिति। पूर्वशब्दादस्तातिप्रत्यये सति `आस्ताति चे'ति प्रकृतेः पुरादेशः। पुरश्शब्दसमानार्थकमिदम्। उपरीति। `उपर्युपरिष्टादि'ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः। ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः। एवं देशे कालेऽपि।

तत्त्वबोधिनी

539 षष्ठ\उfffद्सर्थ। `दक्षिणोत्तराभ्यामतसुच्' इत्यस्य योऽर्थे दिग्देशकालरूपः सोऽर्थे यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतियञ्च, तदन्तेन योगे इत्यर्थः। अचसुचोऽस्तात्यनन्तरत्वेपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः। पञ्चाम्या अपवाद इति। `ततः पश्चात्स्त्रंस्यते ध्वंस्यते च' इति भाष्यप्रयोगात्पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः। अस्मादेव भाष्यप्रयोगात्पश्चाच्छब्देनाऽव्ययीभावो न भवतीति वक्ष्यते। प्रत्ययग्रहणं किम्?। इह मा भूत्, प्राग्ग्रामात्। प्रत्यग्ग्रामात्। कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत्। अत्राहुः कैयटादयः–प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्तेऽस्तातौ षष्ठ\उfffद्भावः। `अन्यारात्— 'इत्यत्राञ्चूत्तरपदस्यापीदं प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम्, एक प्रयोजनत्वादिति। प्रत्ययग्रहणं चिनत्यप्रयोजनमिति तु मनोरमायां स्थितम्। पुर इति। `पीर्वाधरावराणाम्' इत्यसिप्रत्यये पुरादेशः। पुरस्तादिति।`दिक्शब्देभ्यः' इत्यादिनाऽस्तातिः, `अस्ताति च' इति पूर्वस्य पुरादेशः।

Satishji's सूत्र-सूचिः

TBD.