Table of Contents

<<2-3-28 —- 2-3-30>>

2-3-29 अन्याऽरादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते

प्रथमावृत्तिः

TBD.

काशिका

अन्य आरातितर ऋते दिक्शब्द अञ्चूत्तरपद आचाहि इत्येतैर् योगे पञ्चमी विभक्तिर् भवति। अन्य इत्यर्थग्रहनम्। तेन पर्यायप्रयोगे ऽपि भवति। अन्योदेवदत्तात्। भिन्नो देवदत्तात्। अर्थान्तरं देवदत्तात्। विलक्षणे देवदत्तात्। आराच्छब्दो दूरान्तिकार्थे वर्तते। तत्र दूरान्तिकार्थैः षष्थ्यन्यतरस्याम् 2-3-34। इति प्राप्ते पञ्चमी विधीयते। आराद् देवदत्तात्। आराद् यज्ञदत्तात्। इतर इति निर्दिश्यमानप्रतियोगी पदार्थ उच्यते। इतरो देवदत्तात्। ऋते इति अव्ययं वर्जनार्थे। ऋते देवदत्तात्। ऋते यज्ञदत्तात्। दिक्शब्दः पूर्वो ग्रामात् पर्वतः। उत्तरो ग्रामात्। पूर्वो ग्रीष्मात् वसन्तः। उत्तरो ग्रीष्मो वसन्तात्। द्विक्शब्द इत्यत्र शब्दग्रहनं देशकालवृत्तिना ऽपि दिक्शब्देन योगे यथा स्यात्, इतरथा हि दिग्वृत्तिनैव स्यात्, इत्यमस्याः पूर्वा इति। इह तु न स्यात्, अयम् अस्मात् पूर्वः कालः इति। अञ्चूत्तरपद प्राग् ग्रामात्। प्रत्यग् ग्रामात्। ननु चायम् अपि दिक्शब्द एव। षष्ठ्यतसर्थप्रययेन 2-3-30 इति वक्ष्यति, तस्य अयं पुरस्तादपकर्षः। आच् दक्षिणा ग्रामात्। उत्तरा ग्रामात्। आहि दक्षिणाहि ग्रामात्। उत्तराहि ग्रामात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

587 अन्यारात्। युक्त इति भावे क्त इत्याह-एभिर्योगे इति। अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि एतैरष्टभिर्योगे सतीत्यर्थः। भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह–अन्येत्यर्थग्रहणमिति। व्याख्यानादिति भावः। अन्यार्थकशब्दयोगे पञ्चमीति फलितम्। तर्हितरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह–इतरग्रहणं प्रपञ्चार्थमिति। `पचि विस्तारे'। अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत्। अन्यो भिन्न इतरो वेति। भेदवान्विलक्षण इत्याद्युपलक्षणमिदम्। कृष्णप्रतियोगिकभेदवानित्यर्थः। षष्ठ\उfffद्पवादोऽयम्। अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाऽभावादपादानत्वस्य न प्रसक्तिः। एवमग्रेऽपि। आराद्वनादिति। वनस्य दूरं समीपं वेत्यर्थः। `आराद्दूरसमीपयोः' इत्यमरः। ऋते कृष्णादिति। `ऋते' इत्येकारान्तमव्ययम्। `ऋते वर्जने' इत्यमरः। कृष्मस्य वर्जने सुखं नास्तीत्यर्थः। `क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते' इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः। `ततोन्यत्रापि दृश्यते' इति वा द्वितीया। `ऋते द्वितीया चे'ति चान्द्रं सूत्रम्। अथ दिक्छब्दयोगे उदाहरति–पूर्वो ग्रामादिति। ग्रासावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः। ननु `चैत्रात्पूर्वः फाल्गुन' इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाऽभावात्कथं तद्योगे पञ्चमीत्यत आह–दिशि दृष्ट इति। रूढ\उfffदा दिग्विशेषवाचकाः पूर्वादय एव गृह्रन्ते नत्वैन्द्रीककुबादयः। संप्रतीति। कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः। नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह– अवयववाचीति। तस्य परमिति। तस्येति हि प्रकृतं द्विरुक्तं पराभृशति। द्विरुक्तस्य परं=परावयवभूतमाम्रेहितमिति तदर्थः। पूर्वं कायस्येति। शसीरस्य पूर्वावयव इत्यर्थः। अञ्चुधातुरुत्तरपदं यस्य स अञ्चूत्तरपदः=प्रागादिदिक्छब्दः, नतु सध्र्यङ् इत्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात्। तेन सध्र्यङ् देवदत्तेनेत्यत्र न पञ्चमी। ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह– अञ्चूत्तरपदस्येति।`षष्ठ\उfffद्तसर्थे'त्नन्तरं `परत्वात्प्राप्ता'मिति शेषः। प्राक् प्रत्याग्वा ग्रामादिति। ग्रामावधिक इत्यर्थः। आजिति। अच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम्। दक्षिणा ग्रामादिति। ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः। आहीति। आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम्। दक्षिणाहि ग्रामादिति। ग्राभावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः। `आहि च दूरे' इत्याहिप्रत्ययः। आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपि `षष्ठ\उfffद्तसर्थे'ति षष्ठीं बाधितुं पृथग्ग्रहणम्। नन्वेवमपि `भवात्प्रभृत्यारभ्य वा सेव्यो हरिः' इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाऽभावादित्यत आह–अपादाने इति। प्रभृतियोगे इति। प्रभृत्यर्थकशब्दयोगे इत्यर्थः। तथा हि–`अपादाने पञ्चमी'ति सूत्रे भाष्ये `यतश्चाध्वकालनिमानमि'ति वार्तिकं पठित्वा कार्तिक्या आग्रहायणी मासे इत्युदाह्मत्य `इदं न वक्तव्यमि'ति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य `इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे' इत्युक्तम्। प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः। एवं वदता भाष्यकृता `प्रभृत्यर्थकशब्दयोगे पञ्चमी'ति वचनं ज्ञाप्यते। अन्यथा पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव। एवंच प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति। अत एव च `कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे `तत आरभ्येत्यर्थ' इति कैयट आह। तत्र हि तत इति पञ्चम्यास्तसिः। एतत्सर्वमभिप्रेत्योदाहरति–भवात्प्रभृत्यारभ्य वेति। भवः=उत्पत्तिः। आरभ्येत्यस्यावधिं परिगृह्रेत्यर्थः। प्रभृतीत्यव्ययमप्येतदर्थकमेव। भवमवधिं परिगृह्र हरिः सेव्य इत्यर्थः। उत्तपत्तिक्षणात्मकपूर्ववधिकोत्तरकाले सर्वदा आमरणं हरिः सेव्य इति यावत्। अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव, `उपपदविभक्तेः कारकविभक्तिर्बलीयसी'त्युक्तेः। यथा `सूर्योदयमारभ्य आऽस्तमयाज्जपती'त्यादौ। शेषत्वविवक्षायां द्वितीयैव, `उपपदविभक्तेः कारकविभक्तिर्बलीयसी'त्युक्तेः। यथा `सूर्योदयमारभ्य आऽस्तमयाज्जपती'त्यादौ। शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात्पञ्चमी। प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दार्थस्यावधिं परिगृह्रेत्यस्यावध्यादिघटित्वेन क्रियात्वाऽभावात्। अपपरीति। बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्य `अपपरिबहिरञ्चवः पञ्चम्या' इति समासविधानाद्बहिश्शब्दयोगे पञचमी विज्ञायते इत्यर्थः। इदंच `अपपरी'ति सूत्रे भाष्ये स्पष्टम्। `करस्य करमो बहिः' इति त्वसाध्वेव। `ज्ञापकसिद्धं न सर्वत्रे'ति वा कथञ्चित्समाधेयम्।

तत्त्वबोधिनी

527 अन्यो भिन्न इतरो वेति। न चैवं`घटः पटो ने'त्यत्रातिप्रसङ्गः, नञोऽपि भेदे शक्तत्वादिति वाच्यम्, निपातानां द्योकत्वमेव न तु वाचकत्वमित्युभ्युपगमात्#आ। आराद्वनादिति। इह `दूरान्तिकार्थैः षष्ठ\उfffज्ञतरस्याम्' इति प्राप्तम्। ऋते कृष्णादिति। कथं तर्हि `फलति पुरुषाराधनमृते' इति प्रयोग इति चेत्। प्रमादोऽयमिति हरदत्तः। अन्ये तु—-`ततोऽन्यत्रापि दृश्यते' इतिं दृशिग्रहणाच्चैत्रं यावच्छीतमित्यादाविव ऋतेयोगे द्वितीयाऽपि साधुरित्याहुः। अस्मिन् व्याख्याने `ऋते द्वितीया च' इति चान्द्रसूत्रमनुकूलम्। दिशि दृष्ट इति। `रुढये' ति शेषः। तेनैन्द्यादयो नात्र गृह्रन्ते। नन्वेवं ककुबादिग्रहणप्रसङ्ग इति चेत्। अत्राहुः– -अन्यतरसाहचार्याव्द्याख्यानाद्वा दिग्भिन्नेर्थे यो न दृष्टः सोऽत्र गृह्रत इति। दिक्शब्दत्वेऽपीति। यद्यपि अदिक्शब्दोऽप्यञ्चूत्तरपदमस्ति सध्य्रङित्यादिः, तथापि दिक्शब्दसाहचर्यादञ्चूत्तरपदेन प्रागित्यादिदिक्शब्द एव गृह्रते। तेन सध्य्रङ् देवदत्तेनेत्यत्र नातिप्रसङ्ग इति भावः। दक्षिणा ग्रानादिति। दिक्शब्दत्वेनैव सिद्धे आजाहिग्रहणं चिन्त्यप्रयोजनमित्याहुः। प्रभृतियोग ति। प्रभृत्यर्थेर्योग इत्यर्थः। तथा च `कार्तिक्या प्रभृति' इति भाष्यं विवृण्वता कैयटेन `तत आरभ्य इत्यर्थ' इति प्रयुक्तम्। ग्रामाद्बहिरिति। `ज्ञापकसिद्धं न सर्वत्र'। तेन `करस्य करभो बहिः' इति सिद्धम्।

Satishji's सूत्र-सूचिः

TBD.