Table of Contents

<<5-3-27 —- 5-3-29>>

5-3-28 दिक्षिणौत्तराभ्याम् अतसुच्

प्रथमावृत्तिः

TBD.

काशिका

दिक्षिणौत्तराभ्यां दिग्देशकालेषु वर्तमानभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थे ऽतसुच् प्रत्ययो भवति। अस्तातेरपवदः। दक्षिणाशब्दः काले न सम्भवति इति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिनतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेन 2-3-30 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

दक्षिणोत्तराभ्यां। `दिग्देशकालवृत्तिभ्या'मिति शेषः। दक्षिणत उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तु `सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वेनैव `दक्षिणतः' इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात्। अत एव भाष्ये अकारः प्रत्याख्यातः। केचित्तु–अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुः `समानकालीन'मित्यादिवत् `पुरत' इति प्रामादिकमेवेति बहवः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.