TBD.
एनबन्यतरस्याम् अदूरे ऽपञ्चम्याः 5-3-35 इति वक्ष्यति। तेन युक्ते द्वितीया विभक्तिर् भवति। पूर्वेण षष्ठ्यां प्राप्तायाम् इदं वचनम्। दक्षिणेन ग्रामम्। उत्तरेण ग्रामम्। षष्ठ्यापीष्यते। दक्षिणेन ग्रामस्य। उत्तरेण ग्रामस्य। तदर्थं योगविभागः कर्तव्यः।
TBD.
–
602 एनपा द्वितीया। `षष्ठ\उfffद्तसर्थे'ति षष्ठ\उfffदा नित्य बाधे प्राप्ते आह– योगविभागादिति। एनपेति योगो विभज्यते। `षष्ठ\उfffद्तसर्थे'ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते। एनबन्तेनयोगे षष्ठी स्यादित्यर्थः। द्वितीयेति योगान्तरम्। एनपेत्यनुवर्तते। एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः। दक्षिणेनेति। `एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्येनप्। एवमुत्तरेणेति। उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः। पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः। भाष्ये तु `षष्ठ\उfffद्तसर्थे'ति सूत्रात्प्राक् `एनपा द्वितीया' इत्यस्य पाठ इति `पृथग्विना' इति सूत्रे उक्तम्। अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठ\उfffद्साधुरेवेति युक्तम्।
541 एवपा। कथं तर्हि `तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्' इति। उत्तरेणेत्येतत् `दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तेरणेन' इति तोरणसमानाधिकरणं तृतीयान्त न त्वेनबन्तमित्याहुः। `धनपतिगृहानुत्तरेणास्मदीयम्' इति कैश्चित्पट\उfffद्ते, तदा तु सम्यगेव। दक्षिणेनेति। दक्षिणस्यामदूर इत्यर्थे `एनबन्यतरस्याम्' इत्यादिना एनप्।\त्(540) दूरान्तिकार्थैः षष्ठ\उfffज्ञतरस्याम्।2।3।34। पक्षे पञ्चम्यर्थं वचनम्। इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु सन्निहिते अपि द्वितीयातृतीये, तदेतदाह– पञ्चमी चेति। सर्पिषो ज्ञानमिति। वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः। ज्ञानपूर्वीकायां प्रवृत्तौ जानातेर्लक्षणा।
TBD.