Table of Contents

<<2-3-27 —- 2-3-29>>

2-3-28 अपादाने पञ्चमी

प्रथमावृत्तिः

TBD.

काशिका

अपादाने कारके पञ्चमी विभक्तिर् भवति। ग्रामादागच्छति। पर्वतादवरोहति। वृकेभ्यो बिभेति। अध्ययनात् पराजयते। पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्। प्रासादम् आरुह्य प्रेक्षते, प्रासादात् प्रेक्षते। अधिकरणे च उपसङ्ख्यानम्। आसने उपविष्य प्रेक्षते, आसनात् प्रेक्षते। शयनात् प्रेक्षते। प्रष्नाख्यानयोष् च पञ्चमी वक्तव्या। कुतो भवान्? पाटलिपुत्रात्। यतष्चाध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या। गवीधुमतः साङ्काश्यं चत्वारि योजनाऽनि। कार्तिक्या आग्रहायणी मासे। तद्युक्तात् काले सप्तमी वक्तव्या। कार्तिक्या आग्रहायणी मासे। अध्वनः प्रथमा सप्तमी च वक्तव्या। गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

903 ग्रामादायाति. धावतोऽश्वात्पततीत्यादि.. इति पञ्चमी.

बालमनोरमा

579 अपादाने पञ्चमी। स्पष्टत्वान्न व्याख्यातम्। ग्रामादायातीति। आगच्छतीत्यर्थः। कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी। `माथुराः पाटलीपुत्रकेभ्य आढ\उfffद्तराः' इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम्। ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह–धावतोऽ\उfffदाआत्पततीति। अ\उfffदास्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः। जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः। पापाज्जुगुप्सत इति। पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः। विरमतीति। `पापा'दित्यनुषज्यते। पापविषये न प्रवर्तत इत्यर्थः। धर्मात्प्रमाद्यतीति। धर्मविषये मुह्रतीत्यर्थः। वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम्। यदा तु `जुगुप्सते' इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.