Table of Contents

<<2-3-33 —- 2-3-35>>

2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

पञ्चमी अनुवर्तते। दूरान्तिकार्थैः शब्दैर् योगे षष्थी विभक्तिर् भवति, अन्यतरस्यां पञ्चमी च। दूरं ग्रामस्य, दूरं ग्रामात्। विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामात्। अन्तिकं ग्रामस्य, अन्तिकं ग्रामात्। अभ्याशं ग्रामस्य, अभ्याशं ग्रामात्। अन्यतरस्याम् ग्रहणं पञ्चम्यर्थम्। इतरथा हि तृतीया पक्षे स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

603 दूरान्तिकार्थैः। एतैरिति। दूरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः। पञ्चमी चेति। षष्ठ\उfffद्भावे `अपादाने पञ्चमी'त्यतोऽनुवृत्ता पञ्चमीति भावः। `एनपा द्वितीया'इति `पृथग्विनानानाभिस्तृतीया' इति द्वितीयातृतीया संनिहिते अपि न समुच्चीयेते, व्याख्यानात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.