Table of Contents

<<2-3-13 —- 2-3-15>>

2-3-14 क्रियार्थौपपदस्य च कर्मणि स्थानिनः

प्रथमावृत्तिः

TBD.

काशिका

क्रियार्था क्रिया उपपदं यस्य सो ऽयं क्रियार्थोपपाः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3-3-10 इत्येष विषयो लक्ष्यते। क्रियार्थोपपदस्य च स्थानिनो ऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर् भवति। द्वितीयापवादो योगः। एधेभ्यो व्रजति। पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किम्? प्रविश पिण्डीम्। प्रविश तर्पनम्। भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः। कर्मणि इति किम्? एधेभ्यो व्रजति शकटेन। स्थानिनः इति किम्? एधानाहर्तुं व्रजति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

573 क्रियार्थ। क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था। `क्रिये'ति विशेष्यमध्याहार्यम्। क्रियाफलकक्रियावाचकमिति यावत्। क्रियार्था क्रिया उपपदं यस्येति विग्रहः। तुमुनो विशेषणमेतत्। उपोच्चारितं पदम्-उपपदम्। `स्थानिन' इत्यपि तद्विशेषणम्। स्थानं प्रसक्तिरस्यास्तीति स्थानी, तस्येति विग्रहः। अप्रयुज्यमानस्येति यावत्। तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम्। `तुमुन्ण्वुलौ क्रियायां क्रियार्थाया'मिति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते। तदाह–क्रियार्था क्रियेति। `स्थानिन' इत्यस्य व्याख्यानम्- अप्रयुज्यमानस्येति। `फलेभ्यो याती'त्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह– फलान्याहर्तुमिति। इह फलाहरणक्रियार्था यानक्रिया, तद्वाचने उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वाच्चतुर्थी द्वितीयापवादः। नच तादथ्र्यचतुथ्र्या गतार्थता शङ्क्या, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थैव, अतो न फलेभ्यस्तादथ्र्यचतुर्थीप्रसक्तिः। एवं च फलकर्मकाहरणक्रियार्था यानक्रियेति बोधः। उदाहरणान्तरमाह–नमस्कुर्म इति। तुमुन्नन्तार्थाध्याहारं दर्शयति–नृसिंहमनुकूलयितुमिति। नचात्र `नमःस्वस्ती'त्येव चतुर्थी सिद्धेति वाच्यम्, `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति द्वितीयापत्तेः। एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम्।

तत्त्वबोधिनी

515 क्रियार्था क्रियते। स्थानिन इत्यस्यैवार्थकथनम्–अप्रयुज्यमानस्येति। तुमुन इति। ण्वुलोऽप्युपलक्षणम्, फलभ्यो यातीत्यस्य फलान्याहारक इति विवरणे बाधकाऽभावात्। कर्मणीति। तथा च द्वितीयापवादेऽयमिति भावः। यत्तु प्रसादकृता व्याख्यातम्`अप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस्य कर्मणि मा भूदिति नियमार्थं सूत्र'मिति, तदसत्, अप्राप्तस्य नियमाऽयोगात्। न चेह `तादथ्र्य' इति प्राप्तिः शङ्क्या, यानक्रियायाः फलार्थत्वाऽभावात्। आहरणार्था हि यानक्रिया। आहरणं तु फलकर्मकमिन्त्यन्यदेतत्। क्रियार्थोपपदस्य किम्?। प्रविश पिण्डिम्। गृहप्रवेशनं यद्यपि भक्षणार्थं तथापि भकिं?ष प्रति कृत्रिमोपपदत्वं नास्ति। न च तुमुनः कर्मणीत्.युक्तत्वाद्भक्षिकर्मणि चतुर्थ्याः प्रसक्तिरेव नास्तीति प्रत्युदाहरणमिदं न सङ्गच्छत इति वाच्यम्, सति तु `क्रियार्थोपपदस्य' इति पदे `तुमुन्ण्वुलौ क्रियायाम्' इत्येतद्विषयकमेवेदं सूत्रमिति `तुमुनः' इति लभ्यते नान्यथेति प्रत्युदाहरणस्याऽसङ्गतत्वाऽभावात्।

Satishji's सूत्र-सूचिः

TBD.