TBD.
सम्प्रदाने कारके चतुर्थी विभक्तिर् भवति। उपध्यायाय गां ददाति। मानवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयति इत्यादि। चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्। रन्धनाय स्थाय स्थाली। अवहननायोलूखलम्। कॢपि सम्पद्यमाने चतुर्थी वक्तव्या । मूत्राय कल्पते यवागूः। उच्चाराय कल्पते यवागूः। कॢपि इत्यर्थनिर्देशः । मूत्राय सम्पद्यते यवागूः। मूत्राय जायते यवगूः। उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या। वाताय कपिला विद्युदातपायातिलोहिनी। पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्। हितयोगे चतुर्थी वक्तव्या। गोभ्यो हितम्। अरोचकिने हितम्।
TBD.
900 विप्राय गां ददाति..
562 चतुर्थी सम्प्रदाने। विप्रायेति। विप्रमुद्दिश्य गां ददातीत्यर्थः। अनभिहित इत्येवेति। अनुवर्तत एवेत्यर्थः। दानीयो विप्र इति। दानोद्देश्य इत्यर्थः। `कृत्यल्युटो बहुल'मिति बहुलग्रहणात्संप्रदानेऽनीयर्। तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः। ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे `पत्ये शेते' इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायां `क्रियाग्रहणमपि कर्तव्य' मिति वार्तिकं प्रवृत्तम्। संप्रदानमिति यावत्। पत्ये शेते इति। पतिमुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः। न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, `पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात्। तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः। वार्तिकमिदम्। `एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती'ति शेषः। यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति–पशुना रुद्रं यजत इति। अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह–ददातीत्यर्थ इति। इदं वार्तिकं छान्दसमेवेति कैयटः।
–
TBD.