Table of Contents

<<2-3-14 —- 2-3-16>>

2-3-15 तुमर्थाच् च भाववचनात्

प्रथमावृत्तिः

TBD.

काशिका

तुमुना समानार्थस् तुमर्थः। तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच् चतुर्थी विभक्तिर् भवति। भाववचनाश्च 3-3-11 इति वक्ष्यति, तस्य इदं ग्रहनम्। पाकाय व्रजति। त्यागाय व्रजति। भूतये व्रजति। संपत्तये व्रजति। तुमर्थातिति किम्? पाकः। त्यागः। रागः। भाववचनातिति किम्? कारको व्रजति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

574 तुमर्थाच्च। `तुमुन्ण्वुलौ क्रियायां क्रियार्थाया'मिति सूत्रम्। क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः। भोक्तुं व्रजति, भोजको व्रजति। भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम्। अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः। भावः=क्रिया। उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः। क्रियावाचिन इति यावत्। `प्रत्यया'दिति शेषः। तत्र `अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह–भाववचनाश्चेति। `भावे'इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः। `यागाय याती'त्याद्युदाहरणम्। #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम्। अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात् `उक्तार्थानामप्रयोगः' इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम्। तुमर्थादिति किम् ?। पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी। क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात्। भ#आववचनादिति किम् ?। पाचको व्रजति। पक्तुं व्रजतीत्यर्थः। `तुमुन्ण्वुलौ' इति ण्वुल्। तस्य तुमर्थकत्वेऽपि `भावे' इत्यधिकारे विध्यभावान्न चतुर्थी। तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव।

तत्त्वबोधिनी

516 तुमर्थात्। `अव्ययकृतो भावे' इति तुमुनो भावे एव विधानात्तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहार्थमित्याह—भाववचनाश्चेतीति। न च `तादर्थ्ये' इत्येव गतार्थता शङ्क्या। क्रियार्थक्रियोपपदकेन `भाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तान्मा भूदिति नियमार्थमिदं सूत्रमिति। तन्न, ण्वुलः कर्तृवाचकतया तुमर्थकत्वाऽभावेन नियमार्थत्वाऽयोगात्। ण्वुलन्तो कर्तुः प्राधान्यात्, कर्तारं प्रति च तादथ्र्याऽभावात्, गुणीभूत[तया]पातं प्रति तादथ्र्यसंभवेऽपि पातवाचकधातोश्चुतुथ्र्ययोगाच्च। तुमर्थात्किम्?। पचनं वर्तते। भाववचनात्किम्?। पाकः। त्यागः। अत्र वदन्ति–`क्रियार्थोपपदस्य—' इत्यनुवर्त्त्य पञ्चम्या विपरिणमय्य व्याख्याने बाधकाऽभावाद्भाववचनादिति त्युक्तं शक्यम्। न चैवं `तुमर्थात्—' इत्येव वक्तव्यमिति वाच्यम्। वर्णलाघवसम्भवे गौरवाश्रयणाऽयोगादिति। \र्\नुपपदविभक्तेः कारकविभक्तिर्बलियसी॥ वलीयसीति। हरये नम इत्यत्र तूद्देशनक्रियाद्वारा हरिमनस्कारयोः सम्बन्धः–हर्युद्देश्यको नमस्कार इति। एवं चोद्देशनक्रियावगतौ विलम्ब इति कारकविभक्तेर्बलीयस्त्वमित्येके। अन्ये तूपपदविङक्त्या संबन्धसामान्यमवगम्यते, तद्विशेषावगमस्त्वर्थप्रकरणादिपर्यालोचनाऽधीनः। कारकविभक्त्या तु कर्मत्वादिसंबन्धविशेषे झटित्येवाऽवगम्यत इति तस्या बलीयस्त्वमित्याहुः। षष्ठ\उfffद्पीति। ननु प्रभ्वादियोगे षष्ठ\उfffदेवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्रतामित्याशङ्क्याह—तस्मै प्रभवतीति। न त्वां तृणमित्यादि। ननु तृणादिवद्युष्मच्छब्दादपि पक्षे चतुथ्र्या भाव्यम्। मैवम्, `अनादरे' इत्यस्य कर्मविशेषणत्वेन अनादरद्योतकं यत्कर्म तत्र चतुर्थीति व्याख्यानात्। तृणं ह्रत्राऽनादरद्योकतं न तु युष्मदर्थः। स्यादेतत्—त्वां तृणं मन्ये तृणाय वेत्युदाह्यियतां, किमनेन नञः प्रयोगेण?। अत्राहुः–`प्रकृष्य कुत्सित ग्रहणं कर्तव्यम्' इति वार्तिकमस्ति, तेन यद्वाचिनश्चुतुर्थी विधीयते ततो निकृष्टत्वेन यदि कुत्सा प्रतिपाद्यते, तदा चतुर्थी भवति न तु साम्यविवक्षायाम्। तादृशी च कुत्साप्रतीतिर्नञः प्रयोग#ए झटित्येव भवतीति `न त्वा' मित्युक्तमिति।

Satishji's सूत्र-सूचिः

TBD.