TBD.
पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च 2-2-16 इति प्रतिषेधे प्राप्ते वचनम् इदम् आरभ्यते प्रतिप्रसवार्थम्। याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। ब्राह्मणयाजकः। क्षत्रिययाजकः। याजक। पूजक। परिचारक। परिषेचक। स्नातक। अध्यापक। उत्सादक। उद्वर्तक। होतृ। पोतृ। भर्तृ। रथगनक। पत्तिगणक। तत्स्थैश्च गुणैः षष्ठी समस्यते इति वक्तव्यम्। चन्दनगन्धः। कपित्थरसः। गुणात्तरेण तरलोपश्चेअ ई वक्तव्यम्। सर्वेषां श्वेततरः सर्वश्वेतः। सर्वेषां सहत्तरः सर्वमहान्। न निर्धारणे 2-2-10 इति प्रतिषेधे प्राप्ते वचनम् इदम्। सर्वशुक्ला गौः।
TBD.
–
694 याजकादिभिश्च। ननु `षष्ठी 'ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह तृजकाभ्यामिति। ब्राआहृणयाजक इति। ब्राआहृणस्य याजक इति विग्रहः। यजतेण्र्यन्तात्कर्तरि ण्वुल्। अकादेशः। `कर्तृकर्मणोः कृती'ति कर्मणि षष्ठी। देवपूजक इति। देवानां पूजक इति विग्रहः। पूजकशब्दो याजकादिरिति भावः। `भूभर्ते'ति तृजन्तस्योदाहार्यम्। भर्तृशब्दस्य याजकादित्वात्। वार्तिकमिदं सर्वं गुणे'ति सूत्रे भाष्ये स्थितम् . गुणवाचकाद्विहितो यस्तरप्तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः। फलितमाह–तरबन्तं यदिति। ननु `षष्ठी'ति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह–न निर्धारणे इति। `सर्वं गुणे'ति सूत्रे भाष्ये तु `पूरणगुणेत्यस्यापवाद'इत्येवोक्तम्। सर्वशब्दानुवृत्तेः सर्वंशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति–सर्व\उfffदोत इति। `वकानां गुण' इति शेषः। द्रव्यान्तरवृत्ति\उfffदोतरूपापेक्षया सर्वेषां वकानां \उfffदोतगुणोऽयमधिक इत्यर्थः। `द्विवचनविभज्य' इति विभक्तव्योपपदे तरप्। अत्र सर्वेषामिति षष्ठ\उfffद्न्तस्य \उfffदोततरशपब्देन समासे तरपो लोपे `सर्व\उfffदोत इति रूपम्। सर्वमहानिति। `ई\उfffदार' इति शेषः। पूर्ववत्तरप्। `सर्वेषां महत्तरः' इति विग्रहः। इतरसंबन्धिमहत्तावापेक्षया ई\उfffदारस्य महत्त्वमधिकमित्यर्थः।
भाष्यम्। इध्मप्रव्रश्चन इति। `कुठार' इति शेषः। प्रवृश्च्यतेऽनेनेति प्रव्रश्चनः'। करणे ल्युट्। इध्मानां प्रव्रश्चन इति विग्रहः। कर्मणि षष्ठी। `प्रतिपदविधाने'ति वक्ष्यमाणनिषेधस्यापवादोऽयम्।
616 याजकादिभिश्च। याजक। पूजक। परिचारक। परिवेषक। स्नातक। अध्यापक। उत्पादक। होतृष। पोतृ। भर्तृ। रथगणक। पत्तिगणक। वृत्। वक्तव्यम्। गुणात्तरेणेति। एतच्च वार्तिकं `सर्वं गुणकार्त्स्न्ये'इत्यत्र पठितम्। `कर्तृकर्मणोः कृती'ति कृत्सनियोगेन कृतेत्यर्थः। यदा तु `प्रतिपदविधाने'त्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम्। तस्यैवाऽनारभ्यत्वमनुपदं वक्ष्यामः। इध्मव्रश्चन इति। वृक्ष्यते छिद्यतेऽनेनेति व्रश्चनः=कुठारादिति। करणे ल्युट्। इध्मानामिति कर्मषष्ठ\उfffद्न्तस्यानेन समासः।
TBD.