Table of Contents

<<2-2-9 —- 2-2-11>>

2-2-10 न निर्धारणे

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारने या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारनम्। क्षत्रियो मनुष्याणाम् शूरतमः। कृष्णा गवां सम्पन्नक्षीरतमा। धवन्नध्वगानां शीघ्रतमः। प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम्। सर्पिषो ज्ञानम्। मधुनो ज्ञानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

695 न निर्धारणे। नृणां द्विजः श्रेष्ठ इति। अत्र `नृणा'मिति षष्ठ\उfffद्न्तस्य द्विजशब्देन समासो न भवति। पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठ\उfffदेव न तु निर्धारणषष्ठी। `यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः- एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते'रिति कैयटः। `गुणेन निषेधस्त्वनित्य' इति तरप्सूत्रे कैयटः। केचित्तु `उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाह्मतः' इति गीतावाक्यात्कर्मधारय एव। उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः। विधानं यस्याः सा प्रतिपदविधाना। `षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम्। सर्पिषो ज्ञानमिति। अत्र `ज्ञोऽविदर्थस्य करणे' इति विहितषष्ठ्याः समासो न भवति, `न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम्।

तत्त्वबोधिनी

617 नृणामिति। `यतश्च निर्धारण'मिति षष्ठी। द्विजशब्देनात्र समासप्रसङ्गस्तदपेक्षा हि षष्ठी। श्रेष्टत्वं द्विजेतरमनुष्येभ्यः, तेषां समान्यशब्देनोपस्थिततया। तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात्। अथं कथं पुरषोत्तम इति?। यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः– एतत्त्रितयसंनिधाने सत्येवायं निषेध इति `द्विवचनविभज्योपे'ति सूत्रे कैयटः। अन्ये तु–पुरुषेषूत्तम इति निर्धारणसप्तम्याः `संज्ञाया'मिति समासः। न चैवं `न निर्धारणे'इति व्यर्थम्। स्वरे भेदात्। सप्तमीसमासे हि ` तत्पुरुषे तुल्यार्थे'त्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तु `समासस्ये'त्यन्तोतात्तत्वं स्यात्तच्चाऽनिष्टमित्याहुओः। तन्मन्दम्। `संज्ञाया'मिति समासस्य नित्यत्वेन स्वपदविग्रहाऽसंङ्गतिप्रसङ्गात्। तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः। इति वाच्यम्। प्रतिपदविधानेति। पदं पदं प्रति विहिता प्रतिपदविधान। `षष्ठी शेषे' इथि विहायाऽन्येन `ज्ञोऽविदर्थस्ये'त्यादिना विहिता सर्वैव षष्ठीत्यर्थः। धातुकारकविशेषं गृहित्वैव `ज्ञोऽविदर्थस्य'इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम्। नन्वनेनैव गतार्थत्वा`न्न निर्धारणे' इति व्यर्थमिति चेत्। अत्राहुः–`यतश्च निर्धारण'मिति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव। षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत्। एवं `स्वमी\उfffदाराधिपती'त्यादिष्वपि। तेन `गृहस्वामी'`सर्वे\उfffदारः' `निषादाधिपति'रित्यादि सिद्धमिति। वस्तुतस्तुप `ज्ञोऽविदर्थस्ये'त्यादिचतुर्दशसूत्रीमध्ये `दिवस्तदर्थस्ये'त्यादिषट्सूत्रीं विहायाविशिष्टायाममष्टसूत्र्यां `शेषे'इति वर्तते, तथा च न माषाणामाश्नीया'दित्यादाविव `षष्ठी शेषे' इत्येवसिद्धे नियमार्थं प्रकरणम्–इह षष्ठ\उfffदेव न तु तल्लुगिति। तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः। ततश्च `प्रतिपदविधाने'ति वचनं न कर्तव्यम्। एवं स्थिते `कृद्योगा षष्ठी'ति वचनमपि मास्तु। `कर्तृकर्मणोः कृती'त्यत्र हि `शेषे' इति निवृत्तम्। तथा चाऽप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाऽभावात् `षष्ठी'इत्यनेनैव समाससिद्धेः। सर्पिषो ज्ञानमिति। वस्तुतः करणस्य संबन्धमात्रविवक्षया `ज्ञोऽविदर्थस्य'इति षष्ठी। सर्पिःसंबन्धि प्रवर्तनमित्यर्थः। पूरणगुण। अर्थशब्दस्य त्रिषु संबन्धादाह।

Satishji's सूत्र-सूचिः

TBD.