Table of Contents

<<2-2-26 —- 2-2-28>>

2-2-27 तत्र तेन इदम् इति सरूपे

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तम्यन्तं गृह्यते। तेन इति तृतीयान्तम्। सरूपग्रहनं प्रत्येकम् अभिसम्बध्यते। तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति। इतिकरनश्च इह विवक्षार्थो लौकिकम् अर्थम् अनुसारयति। ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वम् इतिकरनाल्लभ्यते। यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यतिदम् इति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतीहारे 5-4-127 इति इच् समासान्तः, स च अव्ययम्। अन्येषाम् अपि दृश्यते 6-3-137 इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

836 तत्र तेन। समास इति, बहुव्रीहिरिति चाधिकृतम्। `तत्रे'त्यनेन सप्तम्यन्ते पदे विवक्षिते। `ग्रहणविषये' इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम्। `तेने'त्यनेन तु तृतीयान्ते पदे विवक्षिते। `प्रहरणविषये'इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम्। `सरूपे' इति प्रथमाद्विवचनान्तं पदविशेषणम्। `ग्रहणविषये' इति `प्रहरणविषये' इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति। `इद'मित्यर्थनिर्देशः। `युद्धं प्रवृत्त'मिति तद्विशेष्यमध्याहार्यम्। कर्मव्यतिहारे द्योत्ये'इत्यपयध्याहार्यम्। तदाह–सप्तम्यन्ते इति। प्रथमाद्विवचनमिदम्। ग्रहणविषये इति। गृह्रते अस्मिन्निति ग्रहणं=केशादि। अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये। ग्रहणवाचके इति यावत्। प्रहरणविषये इति। प्रह्यियते अनेनेति प्रहरणं =दण्डादि। तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये। प्रहरणवाचके इति यावत्। अत्रापि `सरूपे'पदे इन्यन्वेति। इदं युद्धं प्रवृत्तमित्यर्थे इति। `इद'मिति सामान्यार्थनिर्देशः। `युद्ध'मिति विशेषनिर्देशः। अतः केशाकेशि युद्धिमिति न पुनरुक्तिः। परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः। ननु `ग्रहणविषये' `प्रहरणविषये'इत्यध्याहारे किं प्रमाणमित्यत आह– इतिशब्दादिति। इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः। `केशाकेशी'त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः।

तत्त्वबोधिनी

732 तत्र तेनेदं। ग्रहण विषय इति। गृह्रते अनेनेति ग्रहणं=केशादि। तद्विषयो=वाच्यो ययोस्ते सरूपे। प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत्। कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च। ननु `ग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे'त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह—इति शब्दादिति। स हि लौकिकीं विवक्षां दर्शयति। लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.