Table of Contents

<<2-2-27 —- 2-2-29>>

2-2-28 तेन सह इति तुल्ययोगे

प्रथमावृत्तिः

TBD.

काशिका

सह इत्येतच् छाब्दरूपं तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह पुत्रेणागतः सपुत्रः। सच्छात्रः। सकर्मकरः। तुल्ययोगे इति किम्? सहैव दशभिः पुत्रैर्भारं बहति गर्दभी। विद्यमातैरेव दशभिः पुत्रैर्भारं वहति इत्यर्थः। कथं सकर्मकः, सलोमकः, सपक्षकः इति? न ह्यत्र तुल्ययोगो गम्यते। किं तर्हि? विद्यमानता। प्रायिकं तुल्ययोगे इति विशेषनम्। अन्यत्र अपि समासो दृश्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

839 तेन सहेति। तुल्ययोगे इति। युगपत्कालिकक्रियायोगे इत्यर्थः। तृतीयान्तेनेति। तेनेत्यनेन तल्लाभादिति भावः। प्राग्वदिति समस्यते स बहुव्रीहिरित्यर्थः। असामानाधिकरण्यार्थं कबभावार्थं चेदम्।

तत्त्वबोधिनी

735 तेन सहेति। तुल्ययोगे किम्?। `सहैव दशभिः पुत्रैर्भारं वहति गर्दभी'। इह सहशब्दो न तुल्ययोगवचनः, भारकर्मकवहनक्रियायं पुत्राणामननन्वयात्। किं तु विद्यमानवचनः, दशसु पुत्रेषु विद्यमानोष्वित्यर्थः, एतच्च सहशब्दस्य विद्यमानर्थत्वमप्यस्तीति वक्तुमुक्तम्। प्रत्युदाहरणशरीरं तु `सह पुत्रै'रित्येवेति बोध्यम्। तृतीया तु `सहयुक्ते'इत्यनेनैव।

Satishji's सूत्र-सूचिः

TBD.