Table of Contents

<<2-2-25 —- 2-2-27>>

2-2-26 दिङ्नामान्यन्तराले

प्रथमावृत्तिः

TBD.

काशिका

दिशां नामानि दिग्नामानि। दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति। दक्षिणस्याश्च पूर्वस्याश्च दिशोर् यदन्तरालं दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा। पश्चिमदक्षिणा। सर्वनम्नो वृत्तिमात्रे पुंवद्भावः। नामग्रहणं रूढ्यर्थम्। इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर् यदन्तरालम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

884 इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः. द्युतित्वा, द्योतित्वा. लिखित्वा, लेखित्वा. व्युपधात्किम्? वर्तित्वा. रलः किम्? एषित्वा. सेट् किम्? भुक्त्वा..

बालमनोरमा

835 दिङ्नामानि। नामानीत्यनन्तरं `सुबन्तानि परस्पर'मिति शेषः। प्राग्वदिति। समस्यन्ते, स च बहुव्रीहिरित्यर्थः। `नामानी'ति बहुत्वविवक्षितमित्यभिप्रेत्योदाहरति–दक्षिणस्याश्चेति। दक्षिणपूर्वेति। स्त्रीत्वं लोकात्। यद्वा अन्तरालमिह दिगेव गृह्रते। `सर्वनाम्नो वृत्तिमात्रे पुंवत्त्व'मिति भाष्यम्। यद्यप्युपसर्जनत्वान्न सर्वनामत्वन्तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति,अत एव भाष्यात्। ननु दिसोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह–नामग्रहणादिति। दिक्षु रूढाः शब्दाः `दिङ्नामानी'त्यनेन विवक्षिताः। ऐन्द्रीशब्दः कोबैरीशब्दश्चेन्द्रसंबन्धात्कुबेरसंबन्धाच्च प्रवृत्तौ यौगिक एव, न रूढ इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.