Table of Contents

<<2-2-11 —- 2-2-13>>

2-2-12 क्तेन च पूजायाम्

प्रथमावृत्तिः

TBD.

काशिका

मतिबुद्धिपूजाऽर्थेभ्यश्च 3-2-188 इति वक्ष्यति, तस्य इदं ग्रहणम्। पूजाग्रहणम् उपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायाम् इति किम्? छात्रस्य हसितम् छात्रहसितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

697 क्तेन च। अत्र पूजाग्रहणं `मतिबुद्धिपूजार्थेभ्यश्चे'ति सूत्रोपलक्षणं। तदाह– मतिबुद्धीति सूत्रेणेति। राज्ञा मतो बुद्धः पूजितो वेति। राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः। `मतिबुद्धिपूजार्थेभ्यश्चे'ति वर्तमाने क्तः। `क्तस्य च वर्तमाने' इति षष्ठी। नन्वेवं सति `राजपूजितः' `राजमतः' `राजबुद्ध' इति कथं समास इत्यत आह-राजपूजित इत्यादाविति।

तत्त्वबोधिनी

619 क्तेन पूजायाम्। सूत्रे उपलक्षणं पूजाग्रहणं, व्याख्यानादित्याह–मतिबुद्धीति। राज्ञामिति। `क्तस्य च वर्तमाने'इति कर्तरि षष्ठी। भूत इति। न च तक्रकौण्डिन्यायेन मत्यादिब्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यं, `तेनैकदि'दित्यतः `तेन' इत्याधिकारे `उपज्ञाते'इति निर्देशेन भूतकालस्याऽबाधज्ञापनात्। `उपज्ञाते'इत्यत्र हि भूते क्तो, न तु वर्तमाने। अन्यथा `क्तस्य च वर्तमाने'इति षष्ठीविधानादुपज्ञतशब्दस्य तेनेति। तृतीयायोगो न स्यात्। न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यं, `पूजितोः यः सुरासुरैः'इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात्। अन्ये तु कारकषष्ठ\उfffदा एव समासनिषेधोऽयम्, शेषषष्ठ\उfffदा तु समासः स्यादेवेत्याहुः। एतेन `कलहं स राममहितः कृतवा'निति सभट्टिप्रयोगो व्याख्यातः। `राममहितः स, कलहं कृतवा'नित्यन्वयः।

Satishji's सूत्र-सूचिः

TBD.