Table of Contents

<<3-2-187 —- 3-3-1>>

3-2-188 मतिबुद्धिपूजाऽर्थेभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

मतिः इच्छा। बुद्धिः ज्ञानम्। पूजा सकारः। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति। राज्ञां मतः। राज्ञाम् इष्टः। राज्ञां बुद्धः। राज्ञां ज्ञातः। राज्ञां पूजितः। राज्ञाम् अर्चितः। अनुक्तसमुच्चयार्थश्चकारः। शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि। 1। हृष्टतुष्टौ तथा कान्तस् तथोभौ संयतोद्यतौ। कष्टं भविष्यति इत्याहुरमृतः पूर्ववत् समृतः। 2। कष्टः इति भविष्यति काले। अमृतः इति पूर्ववत्। वर्तमाने इत्यर्थः। तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवम् आदयो ऽपि वर्तमाने दृअष्टव्याः। इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः। तृतीयाध्यायस्य तृतीयः पदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

892 मतिबुद्धि। मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः। `वर्तमाने क्त' इति शेष-। `तयोरेवे'ति भावकर्मणोरेव। मतः इष्ट इति। इच्छार्थकान् मनेरिषेश्च क्तः। `तीषसहे'ति वेट्कत्वात् `यस्य विभाषे'ति नेट्। शीलितो रक्षित इति। भाष्यस्थश्लोकोऽयम्। इत्यादीति। आदिना `रुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि। ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ। कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः'। इति सङ्ग्रहः। कष्टशब्दो भविष्यति, अमृतशब्दो वत्र्तमाने इत्यर्थः।

तत्त्वबोधिनी

734 राज्ञामिति। `क्तस्य च वर्तमाने' इति षष्ठी। इष्ट इति। `तीषसहे' ति वेट्कत्वात् `यस्य विभाषे'ति नेट्। शीलित इत्यादि। शील समाधौ, रक्ष पालने, क्षमूष् सहने, क्रुश आह्वाने, जुषी प्रीतिसेवनयोः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः मतिरिहेच्छा। बुद्धे: पृथगुपादानात् । बुद्धिर्ज्ञानम्। पूजा सत्कार:। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्त: स्यात् । When following one of the verbal roots listed below, the affix “क्त” may be used denote an action in the present tense -
(i) any verbal root used in the sense of desire/wish
(ii) any verbal root used in the sense of understanding/knowledge
(iii) any verbal root used in the sense of reverence/respect.

उदाहरणानि -

राज्ञां मत:। राज्ञां इष्ट:। तैरिष्यमाण इत्यर्थ:।

राज्ञां बुद्ध:। राज्ञां विदित:। राज्ञां ज्ञात:।

राज्ञां पूजित:। राज्ञामर्चित:।

चकारोऽनुक्तसमुच्चयार्थ:। (from सिद्धान्तकौमुदी) The mention of “च” in the सूत्रम् 3-2-188 is to include those cases not specifically covered (by 3-2-188.)