Table of Contents

<<2-2-12 —- 2-2-14>>

2-2-13 अधिकरणवाचिना च

प्रथमावृत्तिः

TBD.

काशिका

क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3-4-76 इति वक्ष्यति, तस्य इदं ग्रहणम्। अधिकरणवाचिना क्तेन षष्ठी न समस्यते। इदम् एषां यातम्। इदम् एषाम् भुक्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

698 अधिकरण। शेषपूरणेन सूत्रं व्याचष्टे-क्तेनेति। इदमेषामासितं शयितं गतं भुक्तं वेति। `क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यधिकरणे क्तः। `अधिकरणवाचिनश्चे'ति षष्ठी।

तत्त्वबोधिनी

620 अधिकरणवाचिना च।`वाचि'द्रहणं चन्त्यप्रयोजनमिति हरदत्तादयः। इदमेषामिति। `क्तोऽधिकरणे चे'त् क्तः। `अधिकरणवाचिनश्चे'ति कर्तरि षष्ठी। `अधिकरणे चे'त्येव सिद्धे सूत्रद्वयेऽपि `वाचि'ग्रहणं स्पष्टार्थमित्याहुः। ननु `किवृत्तं `यद्वृत्त'मित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात्। तथा चाधिकरणक्तान्तेन कथमिह समास इतिचेत्। मैवम्। नायमधिकरणे क्तः, किं तु `गत्यर्थाकर्मके'ति कर्तरि। किमा वृत्तं निष्पन्नमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.