TBD.
पूरण गुन सुहितार्थ सतव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते। अर्थशब्दः प्रत्येकम् अभिसम्बध्यते, तेन स्वरूपविधिर् न भवति। पूरणार्थे धात्राणां पञ्चमः। छात्राणां दशमः। गुण बलाकायाः शौक्ल्यम्। काकस्य कार्ष्न्यम्। सुहितार्थास् तृप्त्यर्थाः फलानां सुहितः। फलानां तृप्तः। सत् ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। अव्यय ब्राह्मणस्य कृत्वा। ब्राह्मणस्य हृत्वा। तव्य ब्राहमणस्य कर्तव्यम्। तव्यता सानुबन्धकेन समासो भवत्येव, ब्राह्मणकर्तव्यम्। समानाधिकरण शुकस्य माराविदस्य। राज्ञः पाटलिपुत्रकस्य। पाणिनेः सूत्रकारस्य। किं च स्यात्? पूर्वनिपातस्य अनियमः स्यात्। अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येण बहुलम् 2-1-57 इति भवत्येव समासः। पुर्वनिपातश्च तदा दियोगतो विशेषणस्य एव।
TBD.
–
696 पूरणगुण। पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्यश्च समानाधिकरणं चेति समाहारद्वन्द्वात्तृतीया। तदाह– पूरणाद्यर्थैरिति। पूरणे इति। `उदाहरणं वक्ष्यते' इति शेषः। सतां षष्ठ इति। षण्णां पूरण इत्यर्थे `तस्य पूरणे डट्' `षट्कतिकतिपयचतुरां थुक्'। नच `कुम्भपूरण'मित्यत्रापि निषेधः स्यादिति वाच्यम्, `सोऽचि लोपे चेत्पादपूरण'मिति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात्। `उञ्छषष्ठाङ्कितसैकतानी'त्यत्र तूञ्चात्मकः षष्ठ इति व्याख्येयम्। गुणे इति। `उदाहरणं वक्ष्यते' इत्यर्थः। प्रधानत्वेन वा , उपसर्जनत्वेन वा गुणवाची गुणशब्दः, व्याख्यानात्। तदाह–काकस्य कार्ष्ण्यं ब्राआहृणस्य शुक्ला इति। कृष्णशब्दात् `गुणवचनब्राआहृणादिभ्यः' इति भावे ष्टञ्। शुक्लशब्दात्तु `गुणवचनेभ्यो मतुपो लु'गिति लुक्। ननु `दन्ता' इति शेष पूरणेन `ब्राआहृणस्य दन्ताः शुक्ला' इत्यर्थे ब्राआहृणशब्दस्य दन्तशब्देनैवान्वयाच्छुक्लशब्देनान्वयाऽभावादसामथ्र्यात्कथमिह समासप्रवृत्तिरित्यत आत-यदा प्रकरणादिनेति। प्रकरणादर्थाद्वेत्यर्थः। दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा `ब्राआहृणस्य शक्ला' इत्युच्यते, तदा प्रकरणादर्थाद्वेत्यर्थः। दन्ताः संयुक्ताः शुभावहा न तु, विरला इत्यादिदन्तवर्णने प्रकृते यदा `ब्राआहृणस्य शुक्ला' इत्युच्यते, तदा प्रकरणाद्दन्त #आ इति विशेष्योपस्थितिः। यदा वा सर्ववर्णेषु दन्तवस्त्रभूषणेषु प्रकृतेषु `ब्राआहृणस्य शुक्ला' इत्युच्यते, तदाऽर्थाद्दन्ता इति विशेष्योपस्थितिस्तत्र सामथ्र्यसत्त्वात्समासे प्राप्ते निषेध इत्यर्थः। अत्र `आकडारा'दिति सूत्रोक्तगुणवचनसंज्ञकानां `तृतीया तत्कृते'ति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम्, अत्र गुणवचनशब्दाभावात्। किंतु `वोतो गुणवचना'दिति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात्कथं काष्ण्र्यादिशब्दानां गुणवचित्वमिति निरस्तम्। अथ `अर्थगौरव'मित्यादौ षष्ठीसमासं साधयितुमाह–अनित्योऽयमिति। संज्ञाप्रमाणत्वादिति। संज्ञायाः प्रमाणत्वं-संज्ञाप्रमाणत्वं, तस्मादिति विग्रहः। अत्र प्रमाणत्वस्य गुणत्वात्तेन षष्ठीसमासनिषाधत्समासनिर्देशोऽनुपपन्नः स्यादतो गुणेन निषेध इत्ययमर्थो भाष्ये न दृश्यते। न च कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यं, `पङ्क्तिविशती'ति सूत्रे `विंशत्यादिशब्दा भाववचना भवन्ती'त्युक्त्वा गवां विशतिगवां सहरुआमित्यर्थे गोर्विशतिर्गोसहरुआमित्यादिप्रयोगात्। `अर्थगौरव'मित्यादौ त्वर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम्। `सुहित'पदं व्याचष्टे– सुहितार्तास्तृप्त्यर्था इति। नपुंसके भावे क्त इति भावः। करणत्वस्याऽविवक्षायां संबन्धविवक्षायां षष्ठी। अर्थग्रहणात्फलानां तृप्तिरित्यादावपि न समासः। `फलसुहित'मिति कथं समास इत्यत आह–तृतीयासमासस्त्विति। करणत्वविवक्षायां तृतीया। `कर्तृकरणे कृता बहुल'मिति समास इति भावः। तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह–स्वरे विशेष इति। तृतीयासमासे `तृतीया कर्मणी'ति पूर्वपदप्रकृतिस्वरः। षष्ठीसमासे तु `समासस्ये'त्यन्तोदात्तत्वमिति फलभेद इति भावः। सदिति। सद्योगे षष्ठीसमासनिषेध उदाह्यियत इत्यर्थः। `तौ स'दिति शतृशानचोः सदिति संज्ञा वक्ष्यते। ननु `द्विजस्य कुर्व'न्निति न कर्मणि षष्ठी, `न लोके'ति निषेधात्। नापि `द्विजस्य घटं कुर्व'न्नितिघटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनाऽसामथ्र्यात्कुर्वन्नित्यनेन समासाऽप्रवृत्तेरित्यत आह–किङ्कर इत्यर्थ इति। द्विजं परिचरन्नित्यर्थ इति यावत्। कुञ्धातुरिह परिचरणे वर्तत इति फलितम्। अव्ययमिति। `उदाहरणं वक्ष्यते' इति शेषः। पूर्वोत्तरेति। सत्तव्याभ्यां कृद्भ्यामित्यर्थः। `अनेकमन्यपदार्थे' इति सूत्रभाष्ये `सर्वपश्चा'दिति प्रयोगश्चेह लिङ्गम्। तव्य इति। उदाहरणं वक्ष्यते इत्यर्थः। ब्राआहृणस्य कर्तव्यमिति। `अर्हे कृत्यतृचश्च' `तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः। `कृत्यानां कर्तरि वे'ति षष्ठी। तव्यता तु भवत्येवेति। `षष्ठीसमास' इति शेषः। तकारानुबन्धरहितस्येव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः। स्वकर्तव्यमिति। स्वस्य कर्तव्यमिति विग्रहः। `कृत्यानां कर्तरि वे'ति षष्ठी। अत्र तव्यता योगात्समासनिषेधो नेति भावः। ननु तव्यत्प्रत्ययमाश्रित्य `ब्राआहृणकर्तव्य'मिति समाससंभवा\उfffद्त्क तव्ययोगे तन्निषेधेनेत्यत आह–स्वरे भेद इति। तव्यति कृते कृदुत्तरपद प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः। समानाधिकरण इति। समानाधिकरणेन षष्ठ\उfffद्न्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः। तक्षकस्य सर्पस्येति। अत्र समासे सति पुनः समासात् षष्ठ्युत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः। ननु षष्ठीसमासस्य निषेधेऽपि `विशेषणं विशेष्येणे'ति कर्मधारयसमासो दुर्वारोऽतः किं षष्ठी समासनिषेधेनेत्यत आह– विशेषणसमासस्त्विति। ननु षष्ठीसमासनिषेधसामथ्र्यादेवात्र कर्मधारयो न भविष्यति, तत्किमगतिकगत्या बहुलग्रहणाश्रयणेन ?। न च कर्मधारयस्वर एव यथा स्यान्नतु षष्ठीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम्, उभयथापि `समासस्ये'त्यन्तोदात्तत्स्याऽविशिष्टत्वादिति चेत्, मैवम्-कर्मधारये हि सति `गमनस्य श्रेयस' इत्यादौ `श्रज्यावमकन्पापवत्सु भावे' इति पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्, तन्माबहुलग्रहणमाश्रितम्। न चैवमपि तक्षकः सर्प इति प्रथमान्तविग्रहे कर्मधारये सति `तक्षकसर्पस्ये'ति दुर्निवारमिति वाच्यं, निषेधसामथ्र्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवंजातीयकप्रयोगाऽभावोन्नयनात्। ?थ समानाधिकरणे निषेधे उदाहरणान्तरमाह–गोर्धेनोरिति। गोर्धोनोरित्यादिषु षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः। आदिना यूनः खलतेरित्यादिसङ्ग्रहः। ननु षष्ठीसमास एवात्र न प्रसज्यते, `पोटायुवति', युवा खलती'त्यादि विसेषविहितकर्मधारयेणाऽत्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह–पोटायुवतीत्यादि। `पोटायुवति' `युवा खलती'त्यादिविधयो `गौर्देनुः' `युवा खलति'रित्यादिषु प्रतमाविभक्त्यन्तेषु सावकाशाः। षष्ठीसमाससस्तु `राज्ञः पुरुषः' इत्यादावसमानाधिकरणे सावकाशः। `गोर्धेनोः', `यूनः खलते'रित्यादिषूभयं प्राप्तम्। तत्र `पोटायुवति', `युवा खलती'त्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य स्पष्टत्वात्। समानाधिकरणेन निषेधश्चायं क्वाचित्क एव,अन्यस्य पदस्यार्थ इत्यर्थेऽन्यपदार्थ इति निर्देशात्। तेन `नीलोत्पलस्य गन्ध' इत्यादिः सिद्धः।
618 पूरणाद्यर्थेरिति। अत्र प्राचोक्तम् `एतदर्थैः षष्ठी न समस्यते' इति तन्न्यूनम्। तथा हि सति सुहितान्तानामेव ग्रहणं स्यात्, तावतामेवाऽर्थशब्देन समस्तत्वादिति ध्वनयन्नाह–सदादिभिश्चेति। षष्ठ इति। षण्णां पूरणः षष्ठः। `तस्य पूरणे डट्', `षट्कतिकतिपयचतुरां थुक्'। कथं तर्हि `तान्युञ्छषष्ठाङ्कितसैकतानी'ति?। प्रमाद एवायमित्येके। उञ्छेषु षष्ठः, उञ्छात्मकऋः षष्ठ इति वा व्याख्येयमिति मनोरमायां स्थितम्। गुणे इति। `सत्त्वे निविशतेऽपैती'त्यादिलक्षणलक्षैतो गुणोऽत्र गृह्रते, न त्वदेङ्लक्षणः, अर्थग्रहणात्। नापि सङ्ख्या, `क्रोशशतयोजनशतयो'रिति वार्तिके निर्देशात्। काकस्य काष्ण्र्य। ब्राआहृणस्य शुक्ला इति। व्याप्तिन्यायात्केबवगुणवाची गुणोपसर्जनद्रव्यवाची च गुणशब्देन गृह्रत इति भावः। ननु `ब्राआहृणस्य शुक्ला'इत्यत्र समासप्रसङ्ग एव नास्ति, ब्राआह्?मणशब्दस्य दन्तैरेवान्वयाद्द्राहृणस्य ये दन्तास्ते शुक्ला इत्यर्थादत आह–यदेति। शुक्लशब्द एवेह विशेष्यसमर्पक इति भावः। `चन्दनगन्धः'घटरूप'मित्यादावनेन निषेधे प्राप्ते `तत्स्थैश्च गुणैः समासो वक्तव्यः'इति वार्तिकेन समासः प्रतिप्रसूयते। गन्धगत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः, किंतु स्वप्रधानः। इदमेव हि तात्स्थ्यं नाम। ननु `पिनष्टि गन्धा'निति प्रयोगदर्शनाच्छुक्लशब्दादितुल्य एव गन्धशब्दो न तत्स्थगुणवचन इति चेत्। न। `पिनष्टी'ति प्रयोगे हि `गन्धा'मिति न गुणशब्दः, मालतीकुसुमादिषु गन्धशब्दप्रयोगदर्शनात्। किंतु चन्दनत्वादिजातिनिमित्तकोऽन्य एव सः। तरमाच्चन्दनगन्ध इत्यादौ तत्स्थत्वं सुस्थमेव। एवं `घटरूप'मित्यादावपि। नन्वेवमपि `बलाकायाः शौक्ल्यं', `केशस्य नैल्य'मित्यादावतिप्रसङ्ग इति चेत्। अत्राहुः–`गुणिवचनादुत्पन्नस्य शुक्लादिगुणस्यैवाभिधानात्तद्वाचतपदानां गुणिसामानाधिकरण्यसत्त्वान्न दोषः। तथा च प्राधान्येनाऽप्रधान्येन वा द्रव्याऽप्रति पादकत्वे सति गुणप्रतिपादकत्वंम तत्स्थगुणमित्यर्थ इति। फलानामिति। करणस्य शेषत्वविवक्षायां षष्ठी। स्वरे विशेष इति। `तत्पुरुषे तुल्यार्थे'ति पूर्वपदप्रकृतिस्वरं बाधित्वा `थाथा'दिसूत्रेणान्तोदात्तत्वे प्राप्ते तदपवादेन `तृतीया कर्मणी'त्यनेन पूर्वपदप्रकृतिस्वरे सत्याद्युदात्त इष्टः, षष्ठीसमासे त्वन्तोदात्तत्वं स्यात्तच्च नेष्यत इचि भावः। तृपिश्च सकर्मकोऽप्यस्ति' `पितृ?नतार्प्सीत्सममंस्त बन्धू'निति भट्टिप्रयोगातो। तेनाऽस्मात्कर्मणि क्तोस नास्तीति न शङ्कनीयम्। द्विजस्य कुर्वन्कुर्वाण इति। नेयं घटाद्यपेक्षया षष्ठी, `द्विजस्य घटं कुर्व'न्निति। तथा हि सत्यसामथ्र्यादेव समासाऽप्रसक्ती निषेधोऽयं व्यर्थः स्यादतो व्य्राचष्टे–किङ्कर इत्यर्थ इति। ब्राआहृणस्य कृत्वेति। तादथ्र्यरूपसंबन्धस्य सामान्यरूपेण विवक्षायां षष्ठी। भाहृणसंबन्धिनी या क्रिया तदनन्तरमित्यर्थः। कृदव्ययमेवेति। `अनेकमन्यपदार्थे'इति सूत्रे `सर्वपश्चा'दिति भाष्यप्रयोगादिति भावः। इत्यादिति। तथा च भट्टिः प्रायुङ्क्त– `यत्कृतेऽरीन्निगृह्णीमः'। `आदेयाः किङ्कृते भोगाः कुम्भकर्ण। त्वया विना'इति। रक्षित इति। कैयटहरदत्तौ त्वव्ययप्रतिषेधे `वृक्षस्योपरी'त्युदाहरन्तावकृदव्ययेनापि निषेधं मन्येते, तौ च प्रागुक्तभाष्यप्रयोगविरोधादुपेक्ष्याविति भावः। तव्यता तु भवत्येवेति। सूत्रे निरनुबन्धग्रहणादिति भावः। स्वकर्तव्यमिति. कर्तृषष्ठ\उfffदा समासः। स्वरे भेद इति। कृदत्तरपदप्रकृतिस्वरेण तित्स्वरस्यावस्थानादन्तस्वरित इष्टः। तव्येन तु समासे मध्योदात्तत्वं स्यात्तच्च नेष्यत इति भावः। सोऽप्यनेनेति। षष्ठीसमासेन `पोटायुवती'ति समासो वारितः, सोऽपि षष्ठीसमासः `प#ऊरणगुणे'त्यनेन वार्यत इत्यर्थः।
TBD.