Table of Contents

<<2-1-56 —- 2-1-58>>

2-1-57 विशेसनं विशेष्येण बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

भेदकं विशेषणं, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनम् व्यवस्थार्थम्। क्वचिन् नित्यसमास एव, कृष्णसर्पः, लोहितशालिः। क्वचिन् न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः, नीलम् उत्पलम्, नीलोत्पलम्। विशेषणम् इति किम्? तक्षकः सर्पः। विशेष्येण इति किम्? लोहितस्तक्षकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

947 भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्. नीलमुत्पलं नीलोत्पलम्. बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः. क्वचिन्न - रामो जामदग्न्यः..

बालमनोरमा

726 विशेषणं विशेष्येण। विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम्। व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम्। समानाधिकरणेनेत्यधिकृतम्। तदाह- -भेदकमिति प्राग्वदिति। समस्यते स तत्पुरुष इत्यर्थः। नीलोत्पलमिति। नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम्। तस्य उत्पलपदेन विशेष्य समर्पकेण समासः। प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः। नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात्। यथा-`नीलोत्पलं' `पाचकब्राआहृण' इति। गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः। यथा-खञ्जकुब्जः कुब्जखञ्ज इति। क्रियाशब्दयोरप्यनियमः। यथा-`खञ्जपाचकः' `पाचकखञ्ज' इति -इतिभाष्ये स्पष्टम्। तथा `कैलासाद्रिः' `मन्दराद्रिः' `अयोध्यानगरी'त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात्। सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम्। `शिंशपावृक्ष' इत्यादि ज्ञेयम्। ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह–बहुलग्रहणादिति।

तत्त्वबोधिनी

645 विशेषणम्। विशिष्यते येन तद्विशेषणं। कर्तुः करणत्वविवक्षायां ल्युट्। तदाह– भेदकमिति। व्यावर्तकमित्यर्थः। विशेषणविशेष्ययोः स संबन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानां स्पष्टर्थमिति कैयटः। एतच्च `कुत्सितानि कुत्सनै'रित्यत्रापि तुल्यम्। हरदत्तस्त्वाह– `समस्यमानपदद्वयजन्यबोधप्रकारकयोविशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो भवति, न तु `तक्षकः सर्पः' इत्यादौ। न हि तक्षकत्वं सर्पत्वं व्यभिचरती'ति। तन्मदम्। `कैलासाद्रिः, `मन्दराद्रिः',`भावपदार्थः'`तर्कविद्या,'`व्याकरणशास्त्रं',`भोजराजः', इत्यादिप्रयोगाणामसाङ्गत्यापत्तेः। ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्ययस्थितः पूर्वनिपातः स्यादिति चेदत्राहुः–जातिशब्दस्य गुणक्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव। तेन`नीलोत्पलं' `पाचकब्राआहृण' इति व्यवस्थित एव प्रयोगः। गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव। खञ्जकुब्जः, कुब्जखञ्जः। पाचकपाठकः, पाठकपाचकाः। खञ्जपाचकः, पाचकखञ्ज इति। अत्र मूलमुपसर्जनमिति महासंज्ञा। अप्रधानां ह्रुपसर्जनम्। गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति।\र्\नपरस्यार्ध इति। एतच्च `पश्चा'दिति सूत्रे भाष्ये स्थितम्। बहुलग्रहणादिति। एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.