TBD.
यथा इत्येतदव्ययम् असादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। यथावृद्धं ब्राह्मणानामन्त्रयस्व। ये ये वृद्धाः यथावृद्धम्। यथाध्यापकम्। असादृश्ये इति किम्? यथा देवदत्तः तथा यज्ञदत्तः। यथार्थे यदव्ययम् इति पूर्वेण एव सिद्धे समासे वचनम् इदं सादृश्यप्रतिषेधार्थम्।
TBD.
–
653 यथाऽसादृस्ये। `असादृश्ये' इति छेदः। व्याख्यानात्। असादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे नियमार्थमिदमित्याह-असादृश्ये एवेति। ननु `प्रकारवचने था'लिति विहिततताल्प्रत्ययान्तस्य कथं सादृश्ये वृत्तिरित्यत आह–हरेरिति। सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन्प्रकारे थालिति `प्रकारवचने थाल्' इत्यास्यार्थः। ततश्च यद्विशेषधर्मवान्हरिस्तद्विशेषधर्मवान्हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोरभेदावगमादुपमानत्वप्रतीतिरिति भावः। तेनेति `प्राप्त'मित्यत्रान्वयः। सादृश्यार्थकत्वेनेत्यर्थः। सादृश्य इति वेति। `अव्ययं विभक्ती'ति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यत इत्यंशेन वा, यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्तमव्ययीभावसमासकार्यं निषिध्यत इति भावः। भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृस्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता। यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यतार्थेत्यस्याऽप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः।
578 यथाऽसा। निःसंदेहाय `सादृश्ये यथे'त्येव वक्तव्ये विपरीतोच्चारणं नञः प्रश्लेषलाभार्थमिति वायचष्ठे असादृश्य इति। यावन्त इति। यत्परिमाणमेषां ते। `यत्तदेतेभ्यः—' इति वतुप्।
TBD.