Table of Contents

<<2-1-46 —- 2-1-48>>

2-1-47 क्षेपे

प्रथमावृत्तिः

TBD.

काशिका

क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्ते नकुलस्थितं त एतत्। चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवम् उछ्यते। तत्पुरुषे कृति बहुलम् 6-3-14 इत्यलुक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

714 क्षेपे। `सप्तमी' `क्तेने'ति चानुवर्तते। तदाह–सप्तम्यन्तमित्यादि। अवतप्तेनकुलस्थितं त एतदिति। `स्थित'मिति भावे क्तः। नकुलेन स्थितम्। `कर्तृकरणे कृता बहुल'मिति समासः। `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण'मिति परिभाषया `नकुलस्थित'शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृते `तत्पुरुषे कृती'त्यलुक्। हे देवदत्त ! ते=तव, एतत्=अवस्थानम्, अवतप्ते नकुलस्थित'मित्यन्वयः। यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः। अव्यवस्थितोऽसीति निन्दा ज्ञेया।

तत्त्वबोधिनी

632 अवतप्ते इति। नकुलेन स्थितं नकुलस्थितम्। `कर्तृकरणे कृते'ति समासः। कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः। `तत्पुरुषे कृती'ति सप्तम्या अलुक्। अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते।

Satishji's सूत्र-सूचिः

TBD.