TBD.
समुदाया एव निपात्यन्ते। पात्रेसमिताऽदयः शब्दस् तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन एव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा सयातिति। युक्तरोह्यादिषु हि पात्रेसमितादयश्च इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित् कार्ये इति। उदुम्बरमशकादषु उपमया क्षेपः। मातरिपुरुषः इति प्रतिषिद्धसेवनेन। पिण्डीषूरादिषु निरीहतया। अव्यक्तत्त्वाच्चाकृतिगणो ऽयम्। पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरकृमिः। कूपकच्छपः। कूपचूर्णकः। अवटकच्छपः। कूपमण्डूकः। कुम्भमण्डूकः। उदपानमःडूकः। नगरकाकः। नगरवायसः। मातरिषुरुषः। पिण्डीषूरः। पितरिषूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। हेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठे विजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारो ऽवधारणार्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति।
TBD.
–
715 पात्रेसमितादयश्च। निपात्यन्त इति। कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः। पात्रेसमिता इति। इण् गतौ। संपूर्वात् `गत्यर्थाकर्मके'ति कर्तरि क्तः। निपातनात्सप्तम्या अलुक्। भोजनपात्रे निहिते सति सङ्गता इत्यर्थः। फलितमाह– भोजनेति। गेहेशूर इति। गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः। गेहेनर्दीति। `नर्द शब्दे' `सुप्यजातौ' इति णिनिः। समासे सति निपातनादलुक्। गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः। अवधारणार्थ इति। ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः। ततः किमित्यत आह–तेनेति। ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति।
633 पात्रेसमितादयश्च। संपूर्वादिणः क्तः। गेहेनर्दीति। `नर्द शब्देq'इत्यस्मात् `सुप्यजातौ—'इति णिनिः। घटकतया प्रवेशो नेति। `परमाः पात्रेसमिताः'इति वाक्यमेव भवति, न तु `सन्मह'दित्यादिना समासान्तरमिति भावः। एतच्च शब्दकौस्तुभे स्थितम्। अन्ये तु `कवलाः पात्रेसमिताः'इति वाक्यमेव, न तु `पूर्वकालैके'त्यादिना समासान्तरमित्याहुः।
TBD.