TBD.
कर्तुः क्रियया यदाप्तुम् इष्टतमं तत् कारकं कर्मसंज्ञं भवति। कटं करोति। ग्रामं गच्छति। कर्तुः इति किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषाः, न कर्तुः। तम् अब्ग्रहणं किम्? पयसा ओदनं भुङ्क्ते। कर्म इत्यनुवर्तमाने पुनः कर्मग्रहणम् आधारनिवृत्त्यर्थम्। इतरथा आधारस्य एव हि स्यात् गेहं प्रविशति इति। ओदनं पचति, सक्तून् पिबति इत्यादिषु न स्यात्। पुनः कर्मग्रहणात् सर्वत्र सिद्ध भवति। कर्मप्रदेशाः कर्मणि द्वितीया 2-3-2 इत्येवम् आदयः।
TBD.
893 कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्..
527 कारके इत्यधिकृत्येति। `संज्ञा वक्ष्यन्ते' इति शेषः। `क्रियाजनकं कारकं, करोति क्रियां निर्वर्तयती'ति भाष्ये व्युत्पत्तिदर्शनात्। `ब्राआहृणस्य पुत्रं पश्यती'त्यत्र ब्राआहृणस्याऽन्यथासिद्धत्वान्न कारकत्वम्। कर्तुरीप्सित। `कारके' इत्यनुवृत्तं प्रथमया विपरिणम्यते। आप्तुमिष्यमाणम्-ईप्सितम्। `आप्लृ व्याप्तौ', अस्मात्सन्नन्ता`न्मतिबुद्धिपूजार्थेभ्यश्चे'ति वर्तमाने क्तः। मतिरिच्छा, बुद्धेः पृथग्ग्रहणात्। `क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। अतिशयेनेप्सितमीप्सिततमम्। धातूपात्तव्याव्यापाराश्रयः कर्ता। केनाऽऽप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थाल्लभ्यते। तत्फलितमाह–कर्तुः क्रिययेत्यादिना। क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम्। तेन कटं करोति कृतवान् इत्यादौ नाव्याप्तिः। आप्तिः=संबन्धः। एवं च कत्र्रा स्वनिष्ठव्यापारप्योज्यफलेन संबन्द्धुमिष्यमाणमित्यर्थः। यता `तण्डुलान्पचती'त्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारोऽधिश्रयणोदकासेचनैधोऽपकर्षणप्रज्वलनादिरूप इति `कारके' इत्यादिसूत्रभाष्ये स्पष्टम्। अत एव `फलव्यापारयोर्धातु'रिति सिद्धान्तः। तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः। अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्य विक्लित्तिरूपफलाश्रयत्वात्तण्डुलानां कर्मत्वम्। ननु कर्तृग्रहणं व्यर्थम्। नच व्यापारलाभाय तदिति वाच्यं, केना प्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति–कर्त्तुः किमिति। माषेष्व\उfffदां वध्नातीति। माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यर्थः। अत्र माषाणां कर्मत्वनिवृत्त्यर्थं कर्तृग्रहणमिति भावः। कर्तृ ग्रहणे कृते तुनोक्तदोष इत्याह–कर्मण #इति। बन्धनकर्मीभूतस्या\उfffदास्यैवात्र माषा ईप्सिता नतु बन्धनकर्तुः, अ\उfffदारक्षणस्यैव तदपेक्षि तत्वादित्यर्थः। तमब्ग्रहणं किमिति। तमबन्धमीप्सिततममित्येतत्किमर्थं कर्तृरिद्देश्यं कर्मे'त्येवास्त्विति प्रश्नः। पयसा ओदनं भुङ्क्ते इति। पयसा मिश्रमित्यर्थः। यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्र उद्देश्यो, नतु केवलं पयो, नापि केवल ओदनः, नह्रसौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन। तथापि यदा भुक्तवानेन पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम्। तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रमसाधनतया गुमत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन। अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि। तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः। नच तमब्ग्रहणं किमर्थम्, `कर्तुरीप्सितं कर्म' इत्येबास्त्विति वाच्यम्, `अग्नेर्माणवकं वारयती'त्यत्र मामवकस्य `वारणार्थानामीप्सितः' इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम्। तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति। प्रचीनैस्तु कैश्चित्,– `तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते' इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः। ते भाष्यविरुद्धत्वादुपेक्ष्याः। ननु `अधिशीङ्?स्थासां कर्मे'त्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह–कर्मग्रहणमाधारेति। अधिशीङित्यत्र हि आधार इत्यनुवर्तते। इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः। ननु `हरिं भजती'त्यादावसंभवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह–अन्यथेत्यादि। हरिं भजतीत्यादौ न स्यादित्येवकारार्थः।
474 कर्तुरीप्सिततं कर्म। कर्तुरिति `क्तस्य च वर्तमाने'इति कर्तरि षष्ठी। आप्नोतेः सन्। द्वित्वम्। आप्?ज्ञप्यृधामीत्', `अत्र लोपोऽभ्यासस्ये'त्यभ्यासलोपः। `मतिबुद्धिपूजार्थेभ्यश्च'इति वर्तमाने क्तः। मतिरिहेच्छा, नतु बुद्धिः, पुनर्बुद्धिग्रहणात्। ततः `अतिशायने'`तमबिष्ठनौ'इत्यतिशये तमप्। एवं च कत्र्रा आप्तुमिष्यमाणतमं कर्मेत्यर्थः। कर्ता च धातीपात्तव्यापाराश्रयः। स च केनाऽऽप्तुमिच्छतीति विशेषणीभूतेन व्यापारेणेत्येर्थाल्लभ्यते, तदाह—क्रिययेति। क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम्। तेन कटं कृतवान्करिष्यतीत्यादि सिद्धम्। कारकमिति। एतच्च `कारके' इत्यधिकारल्लभ्यते। तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी। प्रतिसूत्रं वाक्यं भित्त्वा कारकसञ्ज्ञाऽनेन विधीयते। तद्यथा अपाये ध्रुवं कारकसञ्ज्ञं स्यात्। ततो `ऽपादानम्'। उक्तं कारकमपादानं स्यात्। पुनः कारकशब्दानुवृत्तिसामथ्र्याद्विशेषसञ्ज्ञाभिः सह समावेशसिद्धिः। तेन `स्तम्बेरम'इत्यत्राधिकरणत्वात्सप्तमी। कारकक्वाद्गतिकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति। अन्यथा `तत्पुरुषे तुल्यार्थे'त्यादिना पूर्वपदप्रकृतिस्वरः स्यात्। नचाऽत्रोपपदस्वरेणान्यथासिद्धिः शङ्क्या, `स्तम्बकर्णयोः'इति निर्देशात् प्रातिपदिकस्योपपदत्वेऽपि सप्तम्यन्तस्याऽतथात्वात्। यद्यपीह थाथादिस्वरेणैवाऽन्तोदात्तत्वं सिध्यति, तथापियप्प्रत्ययसाहचर्येण एरच एव तत्रोपादानान्नास्ति थाथादिस्वरेण तत्सिद्धिरित्याहुः। अन्वर्था चेयं सञ्ज्ञा–करोतीति कारकमिति। तेन `ब्राआहृणस्य पुत्रं पन्थानं पृच्छती'त्यत्र क्रियाऽनन्वयिनो न भवति। ब्राआहृणो ह्रत्र पुत्रविशेषणं, न तु क्रियान्वयीति। पयसेति। भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वेऽपि ओदन एवाऽत्रैइप्सिततमः, पयस्तु संस्कारत्वात्करणम्। नह्रसौ केवलपयसः पानेन सन्तुष्यति , किं तु तत्संस्कृतेनौदनेन। यदा तु पय एव ईप्सिततममस्य भवति, तदा कर्मत्वं भवत्येव–पयः पिबतीति। कर्मेत्यनुवृत्ताविति। `अधिशीङ्स्थासां कर्मे'ति सूत्रात्।
TBD.