TBD.
उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्रामम् उपवसति सेना। पर्वतम् उपवसति। ग्रामम् अनुवसति। ग्रामम् अधिवसति। ग्रामम् आवसति। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः। ग्रामे उपवसति। भोजननिवृत्तिं करोति इत्यर्थः।
TBD.
–
536 उपान्वध्याङ्वसः। उप अनु अधि अङ् इत्येतेषां द्वन्द्वः। उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः। तदाह–उपादिपूर्वस्येति। उपवसतीत्यादि। वैकुण्ठे वसतीत्यर्थः। उपसर्गा आधारत्वद्योतकाः। अत्र `वसेरश्यर्थस्य प्रतिषेधः' इति वार्तिकम्। तत्राऽर्थशब्दो निवृत्तिवचनः। `अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः। भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः। भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत्। उभसर्वतसोरिति। वार्तिकम्। उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः। धिगिति। धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या। `प्रकृतिवदनुकरणमि'त्यव्ययत्वात्सुपो लुक्। उपर्यादिष्वित्यनेन `उपर्यध्यधसः सामीप्ये' इति सूत्रोपात्तान्यव्ययानि गृह्रन्ते। द्विरुक्तस्य परमाम्रेडितम्। तदन्तेषु। कृतद्विर्वचनेष्विति यावत्। तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः। तत इति। उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः। उभयतः कृष्णं गोपा इति। कृष्णस्य पार्\उfffदाद्वयेऽपीत्यर्थः। आद्यादित्वात्तसिः। `उभयोऽन्यत्रे'त्ययच्। षष्ठ\उfffद्र्थे द्वितीया। सर्वतः कृष्णमिति। कृष्णस्य सर्वेषु पार्\उfffदोषु गोपा इत्यर्थः। धिक्कृष्णाभक्तमिति। धिक्-निन्दायाम्। कृष्णाभक्तस्य निन्देत्यर्थः। केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः। `धिङ्मूर्खे'त्यत्र तु `नषिद्धाचरण'मित्यध्याहार्यम्। उपर्युपरीति। `उपर्यध्यधसः सामीप्ये' इति द्विर्वचनम्। लोकस्य समीपे उपरि हरिरस्तीत्यर्थः। अध्यधीति। लोकस्य समीपदेसे हरिरस्तीत्यर्थः। अधोऽध इति। लोकस्य समीपे अधो हरिरस्तीत्यर्थः।\र्\नबितः परित इति। `ततोऽन्यत्रापि दृश्यते' इत्यस्य प्रपञ्चोऽयम्। `योगेऽपी'त्यनन्तरं `द्वितीये'ति शेषः। अभितः कृष्णमिति। `गोपा' इति शेषः। कृष्णस्य पार्\उfffदाद्वयेऽपीत्यर्थः। परितः कृष्णमिति। कृष्णस्य सर्वेषु पार्\उfffदोषु गोपा इत्यर्थः। `पर्यभिभ्यां चे'ति तसिल्। ग्रां समया निकषेति। `समया' `निकषा' इति च आकारान्ते अव्यये। `ग्राम'मित्यस्य प्रत्येकमन्वयः। ग्रामस्य समीपे इत्यर्थः। `निकषाऽन्तिके' `समयाऽन्तिकमध्ययोः' इति चामरः। विलङ्घ्य लङ्कां निकषा हनिष्यती'ति माघः। हा कृष्णाभक्तमिति। `हा' इत्याकारान्तमव्ययं खेदे। `हा विषादशुगार्तिषु' इत्यमरः। तदाह-तस्य शोच्यतेत्यर्थ इति। कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये। प्रतियोगमुदाहरति–बुभुक्षितमिति। क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः। `भा दी#उ?तौ'। इह तु उपसर्दबलात्स्फुरणे वर्तते। ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम्। एवंच `कर्मप्रवचनीययुक्ते द्वितीया' इत्यनेन गतार्थत्वं न भवति।
482 उपान्व। `लुग्विकरणादलुग्विकरणं बलीय'इति `वस निवासे'इति भौवादिक एव गृह्रते, न तु `वस आच्छादने'इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह—उपादिपूर्वस्य वसतेरिति। `वसेरशश्यर्थस्य प्रतिषेधः'इति वार्तिकमर्थतो व्याचष्टे— \र्\नभुक्त्यर्थस्य न। अभुक्त्यर्थस्य नेति। वार्तिके अर्थशब्दो निवृत्तिवचनः। भोजननिवृत्तिवाचकस्य वसेराधारः कर्म नेत्यर्थः। वने उपवसतीति। कथं तर्हि `गत्र्थाऽकर्मके'ति सूत्रे `हरिदिनमुपोषितः'इत्युदाहरणं सङ्गच्छत इति चेत्। अत्राहुः–वसेरत्र स्थितिरर्थः, भोजननिवृत्तिस्त्वार्थिकीति न दोष इति। उपपदविभक्तिमाह–उभसर्वतसोरित्यादिना। उभसर्वयोस्तसौ उभसर्वतसो, तदन्तयोर्योगे द्वितीय कार्येत्यर्थः। प्रकृतिद्वित्वेन तसोरिति द्वित्वनिर्देशः। अत्र उभशब्दादयत् न कृतः, अनुकरणशब्दत्वेनाऽसङ्ख्यावाचित्वात्। तथाच उभशब्देन उभयशब्दो लक्ष्यते, केवलात्परत्र तसिलोऽसम्भवादित्येके। वस्तुतस्तु वृत्तिविषये अयच्प्रवृत्तावपि उभशब्दाद्विहितो यस्तस् तदन्तमस्त्येवेति यथाश्रुतं साधु इति तु मनोरमायां स्थितम्। धिगिति। धिक्?शब्दयोगेऽपि द्वितीया कार्येत्यर्थः। अत्र प्राञ्चः–`धि'गित्यविभक्तिको निर्देशो गवित्ययमाहेतिवदित्याहुः। तन्न। तथा सत्यपदान्ततया दृष्टन्ते `लोपः शाकल्यस्य'इत्यस्येव दार्ष्टान्तिके जश्त्वस्याप्यप्रवृत्तिसङ्गात्। न चायं गकारान्त एवास्त्विति शङ्क्यम्। `कस्य च दः'इति सूत्रे `धकि'दित्युदाहरणस्याऽसङ्गतिप्रसङ्ग#आत्। `कस्य च दः'इत्यनेन हि कान्ताव्ययस्याऽकच्सन्नियोगेन दत्वं विधीयते, तस्माद्धिगिति विभक्त्यन्तमेव। परन्तु `प्रकृतिवदनुकरण'मित्यतिदेशेनाऽव्ययत्वात्सुपो लुक्। यदि तु धिगित्यविभक्तितो निर्देश इत्येतावानेव प्राचां ग्रन्थस्तदा सम्यगेव। अव्ययत्वात्सुपो लुक्यविभक्तिको निर्देश इति वक्तुं शक्यत्वात्। उभयतः कृष्णमिति। कृष्णस्य पार्\उfffदाद्वयेऽपूत्यर्थः। आद्यादित्वात्तसिः। षष्ठ\उfffद्र्थे द्वितीया। एवमुपपदविभक्तौ सर्वत्र बोध्यम्। अत्र–व्याचक्षते–`उभसर्वतसो'रित्यत्र उभसर्वयोर्गणे परस्परसाहचर्यात्तसिलेव गृह्रते, न त्वाद्यादिभ्य इति तसिः। तथा चोभयत इत्यादौ `तसेश्चे'त्यनेन तसिलादेशोऽवगन्तव्यस्तेन यत्र सञ्ज्ञायां तसेस्त सिलादेशाऽभावस्तत्र न द्वितीया, किन्तु षष्ठ\उfffदेव। तसिलभावस्तु `तसेश्चे'त्यत्र `किंसर्वनामबहुभ्यः'इत्यनुवर्तनादिति। धिक् कृष्णाभक्तमिति। तस्य निन्द्यतेत्यर्थः। षष्ठ\उfffद्र्थे द्वितीया। स निन्द्य इत्यर्थः। प्रथमार्थे द्वितीयेत्येके। कथं धिह् सूर्खेति?। सम्बोधनपदस्य क्रियमन्वय इति प्रागेवोक्ततया धिक्शब्दयोगाऽभावाद्द्वितीया न प्रवर्तत इति `सम्बोधने चे'ति प्रथमैव भव[ती]ति। क्रियापदं च क्वचिच्छ्रुतं क्वचिदाक्षिप्तम्। तथा च धिङ् मूर्क निषिद्धाचरणमिदमित्येतदिह कल्प्यम्। मूर्खसम्बोध्यकनिषिद्धाचरणस्य निन्द्यतेति तु वाक्यार्थः। `प्रथमार्थे धिग्योदे द्वितीये'ति वादिनां तु मूर्खसम्बोध्यकं निषिद्धाचरमं निन्द्यमिति वाक्यार्थः। यत्तु `उपपदविभक्तेः कारकविभक्तिर्बलीयसी'ति सम्बोधने प्रथमैव भवति, सम्बोधनपदस्य कर्तृकारकवाचित्वादित्याहुः। तच्चिन्त्यम्। सम्बोधनस्य कर्तृकारकत्वे उक्तिसम्भवाऽभावात्। न च `देव प्रसीदे'त्यादौ वस्तुगत्या देव एव कर्तेत्यस्त्येवोक्तिसम्भव इति वाच्यम्, वास्तवकर्तृत्वेऽपि कारकविभक्तित्वस्याऽलाभात्। किञ्च `देव त्वां भजे, त्वां भजन्ति भक्ता'इत्यादौ सम्बोध्यदेवस्य वास्तवमपि कर्तृत्वं नास्तीति आस्तां तावत्। उपर्युपरीति। कथं तर्हि `उपर्युपरिबुद्धीनां चरन्तीस्वरबुद्ध्यः'इति?। अत्राहुः– उपरिबुद्धीनाम्=उत्तानबुद्धीनामुपरि चरन्तीत्यर्थः। तेनाऽऽत्राम्रेडितत्वाऽभावान्न द्वितीया। यद्वा–प्रतिपदोक्तस्य `उपर्यध्यधसः सामीप्ये'इति कृतद्वित्वस्य वार्तिके ग्रहणादिह च वीप्साद्विर्वचनत्वान्नास्ति द्वितीयाप्रसक्तिरिति।\र्\नभितः परितः समयानिकषाहाप्रतियोगेऽपि। अभितः परितैति। एतच्च `अन्यत्रापि दृश्यत' इति पूर्वोक्तस्यैव प्रपञ्चभूंतमिति व्याचख्युः। लङ्कां निकषा हनिष्यती'ति माघः। `ह'ति खेदे, तदेतदाह–तस्य शोच्यतेति। बुभुक्षितमिति। बुभुक्षितस्येत्यर्थः। एष प्रतिशब्दः क्रियाविशेषकत्वादुपसर्गः, न तु कर्मप्रवचनीयः। तेनाऽत्र `कर्मप्रवचनीययुक्ते—' इत्यनेन गतार्थता न शङ्क्या।
TBD.