Table of Contents

<<1-4-49 —- 1-4-51>>

1-4-50 तथायुक्तं च अनीप्सितम्

प्रथमावृत्तिः

TBD.

काशिका

येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन एव चेत् प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसंज्ञा विधीयते। ईप्सितादन्यत् सर्वम् अनीप्सितम्, द्वेष्यम, इतरच् च। विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

499 क्रीतात्करणपूर्वात्। प्रातिपदिकादित्यनुवृत्तमत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्त विधिः। तदाह–क्रीतान्तादित्यादिना। करणमादिर्यस्येति विग्रहः। प्रातिपदिकशब्दो विशेष्यं, तेन करणादेरिति पुंस्त्वमुपपन्नम्। वस्त्रक्रीतीति। ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुल'मिति समासात्मकं प्रातिपदिकमादन्तमेव, न त्वदन्तमिति कथमत्र ङीषिति चेत्, सत्यम्–समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः। वस्त्र भिस् क्रीत इति स्थिते `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे `सुपो धातु' इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः। एतच्च `पुंयोगादाख्याया'मिति सूत्रे भाष्ये स्पष्टम्। धनक्रीतेत्यत्रापि ङीष् स्यादित्यत आह-क्वचिन्नेति। `कर्तृकरणे कृता बहुल'मिति बहुलग्रहणेन `गतिकारकोपपदाना'मित्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वाट्टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रातीशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः। एवं च `अत' सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः। एवं च `अत' इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति। एतच्च `उपपदमतिङि'त्यत्र कैयटे स्पष्टम्। करणपूर्वार्त किम् ?। सुकीता नचैवमपि वस्त्रेण क्रीतेति वाक्यान्ङीष्प्रसङ्गः, क्रीतेति प्रातिपदिकस्य करणपूर्वात्वात्, अदन्तत्वाच्चेति वाच्यं, करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणं, नतु क्रीतशब्दस्य। करणं पूर्वं यस्मिन्निति बहुव्रीहिः। करणशब्दात्मकपूर्वायवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः। एतदर्थमेव पूर्वग्रहणम्। अन्यथा `क्रीतात्करणा'दित्येवावक्ष्यदित्यलम्।

तत्त्वबोधिनी

450 क्रीतात्। इह प्रकरणे `अतः'इत्यनुवर्तते, `प्रातिपदिका'दिति च, तदाह– अदन्तादिति। `प्रातिपदिका'दिति शेषः। वस्त्रक्रीतीति। `वस्त्र भिस्क्रीते'ति स्थिते प्राक्तुबुत्पत्तेः `कर्तृकरणे'इति समासेऽदन्तत्वान्ङीष्। क्वचिन्नेति। `कर्तृकरणे कृता बहुल'मिति बहुलग्रहणात् `गतिकारकोपपदे'ति वक्ष्यमाणस्य क्वचिदप्रवृत्तौ सुबन्तेन समासः। तत्र सुपः प्रागेवान्तरङ्गत्वाट्टाप्, ततोऽदन्तत्वाऽभावान्न ङीषिति भावः। करणपूर्वादिति किम्?। गवा क्रीताअ\उfffदोन क्रीतेत्यादिविग्रहे मा भूत्। पूर्वशब्दो ह्रवयववचनः, समासप्रातिपदिकं चान्यपदार्थः। करणं पूर्वं यस्मिन्? प्रातिपदिके तदिदं करणपूर्वं, तस्मादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.