Table of Contents

<<1-4-23 —- 1-4-25>>

1-4-24 ध्रुवमपाये ऽपादानम्

प्रथमावृत्तिः

TBD.

काशिका

ध्रुवं यदपाययुक्तम् अपाये साध्ये यदवधिभूतं तत् कारकम् अपादानसंज्ञं भवति। ग्रामादागछ्हति। पर्वतादवरोहति। सार्थाद्धीनः। रथात् पतितः। जुगुप्साविरामप्रमादार्थनाम् उपसङ्ख्यानम्। अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः अपादाने पञ्चमी 2-3-28 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

902 अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्..

बालमनोरमा

578 अथ पञ्चमी। ध्रुवमपाये। अपायपदं व्याचष्टे–अपायो विश्लेष इति। वियोग इत्यर्थः। `ध्रुव'पदं व्याचष्टे-अवधिभूतमिति। द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः। तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम्। तच्चेहार्थादवधिभूतं विवक्षितमिति भावः।

तत्त्वबोधिनी

519 ध्रुवमपाये। `ध्रु गतिस्थैर्ययोः' अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ्। `ध्रुव स्थेर्ये' इति केचित्। तत्र `इगुपध–'इति कः। ध्रुवं स्थिरम्। अपायशब्देन विवक्षितमाह–विश्लेष इति। एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम्। तच्चाऽर्थादवधिरेवेत्याह–अवधिभूतमिति। धावत इति। इह धावनक्रियाविशिष्टस्याऽप्य\उfffदास्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते, `परस्परस्मान्मेषावपसरतः' इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते। उक्तं च हरिणा–`अपाये यदुदासीनां चलं वा यदि वाऽचलम्। ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते। पततो ध्रुव एवास्वो यस्माद\उfffदाआत्पतत्यसौ। तस्याप्य\उfffदास्य पतेन कुड\उfffदादि ध्रुवमिष्यते। मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक्। मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्'॥ इति। `पर्वतात्पततोऽ\उfffदाआत्पतती'त्यत्र तु पर्वतावधिकपतनाश्रयो योऽ\उfffदास्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्, `उद्धृतौदन स्थाली' त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात्। एतच्च मनोरमायां स्थितम्। नन्विह ध्रुवग्रहणं किमर्थम्?। न च `ग्रामादागच्छति शकटेने'त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः। न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत्। अत्र वदन्ति–कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति। जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः। संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः। भाष्याकारस्तु–कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं, `भीत्रार्थानाम्—'इत्यादि सूत्राणि च प्रत्याचख्यौ। पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः।

Satishji's सूत्र-सूचिः

TBD.