TBD.
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत् कारकम् अपादानसंज्ञं भवति। चौरेभ्यो बिभेति। चौरेभ्य उद्विजते। त्रायत्यर्थानाम् चौरेभ्यस् त्रायते। चौरेभ्यो रक्षति। भयहेतुः इति किम्? अरण्ये बिभेति। अरण्ये त्रायते।
TBD.
–
580 भीत्रा। चोराद्विभेतीति। चोरेण हेतुनेत्यर्थः। हेतुतृतीया प्राप्ता। चोरात्रायत इति। चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः। यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम्।
520 भीत्रा। `कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे' इति रामायणे तु `कस्ये' त्यस्य संयुगेनान्वयान्नास्ति भयहेतुत्वमिति षष्ठीप्रयोगः सङ्गच्छत एव। न चैवं संयुगस्याऽपादानत्वापत्तिरिति वाच्यम्। परया अधिकरणसंज्ञया अपादानसंज्ञा [या]बाधात्। अधिकरणत्वाऽविवक्षायां तु इष्टापत्तेः। भीत्रार्थेति किम्?। व्याघ्रं पश्यति। न च कर्मत्वेन बाधः शङ्क्यः, कर्मत्वाऽविवक्षायां शेषषष्ठीं बाधित्वा पञ्चमी प्रसङ्गादित्याहुः। भयतहेतुग्रहणं चिन्त्यप्रयोजनम्, अरण्ये बिभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत्, अत्र वदन्ति–भयहेतुग्रहणाऽभावे कारकशेषत्वविवक्षायामतिप्रसङ्गः स्यात्। तथा च `अरण्यस्य चोराद्बिभेती'ति प्रयोगो न स्यादिति।
TBD.